SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 114 Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. A245 A 246 A 247 दग्ध्वा च नागलोकान्तां गुहामवाप्तसकलमनोरथश्चिरजीवी पुनरन्यं दुर्गसंस्कार कारयित्वा मङ्गलकल्याणाभ्युदयलक्षणेन घोषेण तस्मिन्नेव न्यग्रोधपादपे सर्वप्रकृति3 समेतं राजानं मेघवर्णमास्थापितवान् । अथ निर्जितारिर्मेघवर्णश्चिरजीविनमाह । तात । कथं वया शत्रुमध्यगतेन कालो ऽतिवाहितः ।। वरमग्री प्रदीप्ते तु प्रपात: पुण्यकर्मणाम् । न चारिजनसंसर्गो मुहूर्तमपि सेवित: ॥ ९२ ॥ सो ऽब्रवीत् । भद्र। 9 उपनतभये यो यो मार्गो हितार्थकरो भवे त्स स निपुणया बुद्ध्या ध्येयो महान्कृपणो ऽपि वा । करिकरनिभी ज्याघाताङ्को महास्त्रविशारदी 12 वलयरणिती स्त्रीवद्वाह कृती न किरीटिना ॥ ९३ ॥ - शक्तेनापि सदा जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वक्रवाक्यनिपुणे बुद्रे ऽपि पापे जने । 15 दीव्यग्रकरण धूममलिनेनायासखिन्नेन किं भीमेनातिबलेन मत्स्यभवने सूदा न संघट्टिताः ॥ ९४ ॥ यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा 18 कालाकानी पिहितनयनो बुद्धिमान्कर्म कुर्यात् । किं गाण्डीवस्फुरदुरुगुणास्फालनव्यग्रपाणि सीलीलावलयितरणमेखल: सब्यसाची ॥ १५ ॥ 1 सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वक सर्वोत्साहवतापि दैवविधिषु स्थेयं समीक्ष्य क्रमम् । देवेन्द्रद्रविणेश्वरान्तकसमैरप्यन्वितो धातृभिः 24 किं क्लिष्टः मुचिरं चिदण्डमवहच्छ्रीमान्न धर्मात्मजः ॥ ९६॥ रूपाभिजनसंपन्नी माद्रीपुत्रौ गुणान्विती । गोवाजिवस्तिसंस्कारे विराटप्रेष्यतां गतौ ॥ ९७ ॥ 27 रूपेणाप्रतिमेन यौवनगुणैर्वशे शुभे जन्मना युक्ता श्रीरिव या तयापि च वशं कालक्रमादागतम् । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाज्ञप्तया 30 द्रौपद्यापि न मत्स्यराजभवने घृष्टं चिरं चन्दनम् ॥ ९८ ॥ मेघवर्ण आह । असिधाराव्रतमिव । मन्ये । अप्रियेण सह संवासः । सो ऽब्रवीत् । देव । एवमेतत् । तथापि । कि गायितरणखी निगृह्य व A 243
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy