________________
93
A 207b
A 208
THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls.
इयं त्वभिन्नमर्यादैः स्वनुशिष्टः कृतात्मभिः । सर्वसहेरुपायचैरमूढेरेव धार्यते ॥ १७ ॥
3 तत्सर्वथा युद्धमेव न श्रेयस्करमिति । कस्मात् । ज्यायसा विरोधो हस्तिना पादयुद्धमिवैकान्तविनाशाय ।
मेघवर्ण आह । तात । कथय । किं निष्पन्नम् । सो ऽब्रवीत् । भद्र । संप्र• धार्यतामेतत् । उक्तं च ।
नयो हि मन्त्रस्य मुखं तदाश्रयप्रयोजनेनेह तु कर्म मन्त्रिणाम् । • समुद्धृतो दूतनियोग इष्यते
क्रियानुयोगः परतो ऽनुजीविनाम् ॥ १८ ॥ विशेषलब्धप्रतिभा प्रगल्भता
12 क्रियासु सम्यक्प्रणिधानमात्मनः । परात्मनोश्चान्तरनिश्चयज्ञता महीपतेर्मन्त्रकरस्य जायते ॥ १९ ॥
15 या प्राणपणिता देहमूल्येनापि न लभ्यते ।
सा श्रीर्मन्त्रविदां वेश्मन्यनाहूतापि धावति ॥ २० ॥ क्रमेण यः शास्त्रविदो हितैषिणः
18 क्रियाविभागे सुहृदो न पृच्छति ।
21
* *
*
*
*
*
* * * *
*
*
*
# *
* * * ॥ २१ ॥
*
*
*
* * *
महोदधिं नद्य इवाभिपूर्ण
24 तं संपदः सत्पुरुषं भजन्ते ॥ २२ ॥
शूराः सर्वोपधायित्वाद्बुद्धिमन्तो विचक्षणाः । सहायाः स्युर्नृपत्वं हि सत्सहायनिबन्धनम् ॥ २३ ॥ 27 सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ २४ ॥ देशं बलं कालमुपायमायु
30 विचिन्त्य यः प्रारभते हि कृत्यम् ।
स वेत्ति नीतिं स परैर्न वच्यते
मनोरथस्तस्य न याति वन्ध्यताम् ॥ २५ ॥