SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 89 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. A 196 तेन हि । चते प्रहारा निपतन्त्यभीक्षण३ मन्नक्षये कुप्यति जाठरामिः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वना बहलीभवन्ति ॥ १६९ ॥ 6 शोकारतिभयत्राणं प्रीतिविसम्मभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १७० ॥ एवमाक्रन्दत एव लघुपतनचित्राङ्गावपि तेन समेती । अथ हिरण्यस्तानब्रवीत् । 9 यावदयं मन्थरको ऽस्मद्गोचरगतः । तावदसावुपायेन शक्यो मोक्षयितुम् । तद्गच्छ । चित्राङ्ग । त्वमस्य व्याधस्याग्रतो नदीसमीपे विप्रकृष्टे भूप्रदेशे निपत्य मृतमात्मानं कृत्वा दर्शय । अयमपि लघुपतनकस्त्वदुपर्यवस्थितः शृङ्गपञ्जरान्तरविन्यस्तचरणो 13 नेचोत्पाटनरूपं छद्मनात्मानं दर्शयतु । अयं तु मूर्यो ऽवश्यं लोभात्कच्छपं परित्यज्य सारडं यास्यति । अहमप्यतिक्रान्ते तस्मिन्गमनसमकालं मन्थरं बन्धनान्मोचयिष्यामि पाशं छित्त्वेति । अभ्याशोपगते तस्मिन्नाश्वपयानं यथा क्रियते । तथा प्रयतितव्यम् । 15 एवमनुष्ठिते लुब्धको ऽपि मृतरूपं मगं दृष्ट्वा कच्छपं सरित्तीरे शुष्कशाकमिव परित्यज्य तत्सकाशं गन्तुमारब्धः । तस्मिन्गते हिरण्येन मन्थरस्य पाशाः खण्डशः कृताः । कच्छपो ऽपि तत्स्थानाडुदं प्रविष्टः । लघुपतनकचित्राङ्गावपि लुब्धकं वञ्चयित्वाप18 यातौ । एवमनुष्ठिते लुब्धको ऽपि दृष्ट्वा तदिन्द्रजालमिव मन्यमानः किमिदमित्यनुचिन्त्य कच्छपसकाशं गतो ऽपश्यदङ्गलप्रमाणां खण्डशरिछनां रज्जम् । कच्छपमपि योगिनमिवादृश्यतां गतम् । इति स्वशरीरे ऽपि संशयमचिन्तयत्संचभितहृदयश्च तस्मा21 वनाच्छीघ्राच्छीघ्रतरपदैः स्वगृहमेव प्रतिजगाम । हिरण्यो ऽपि मुक्तबन्धनं मन्थरमा इय नदीतटोपरि वृक्षच्छायायां चिचाङ्गलघुपतनकाभ्यां समेतः । अथ सर्वे ते कल्यशरीराः पुनरेकीभूताः । यथायथं च ते कालेन सुखमनुभवन्त इति । 24 तिरचामपि यत्रदृक्संगतं लोकसंमतम् । माषु यदि कस्तच विस्मयो शानशालिषु ॥ १७१ ॥ ॥ इति तन्त्राख्यायिके मित्रप्राप्ति म द्वितीयं तन्त्रम् ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy