________________
.. काव्यमाला।
प्रहादिनेति वचसा वदतां वरस्य
निर्धूय संशयमलं विरतस्यै साधोः । पादौ प्रणम्य शिरसा व्रतभूषिताङ्गः
प्रत्याययौ निजपुरं प्रति पद्मनाभः ॥ ७९ ॥ आकस्मिकोद्गतबृहत्परचक्रशङ्का
त्रस्यज्जनोक्तकिमिदंध्वनिपूर्यमाणः । तस्मिन्मुनीन्द्रकथितेऽथ दिने तुरंगा
नुत्कर्णयन्कलकलोऽतिमहान्बभूव ॥ ८० ॥ किं किं किमेतदुपयाहि विलोकयेति
संप्रष्टरि क्षितिभुजि त्वरितं प्रगत्य । कश्चिन्निवृत्य पुनरित्यवदद्वचखी
निर्णीतलोकविषयाकुलतानिमित्तः ॥ ८१ ॥ कोऽपि क्षरत्करटभित्तिरुपेत्य देव
दन्ती कुतोऽपि सुरदन्तिसमानसत्त्वः । हन्त्युद्धतः सकलमेव पुराबहिःस्थं
लोकं त्वदीयभुजरक्षितमारटन्तम् ॥ ८२ ॥ निष्कामति प्रविशति प्रकटोऽथ वा यः
सर्वः स तत्करपराहतिचूर्णिताङ्गः। दिग्भ्यो बलिर्भवति किं बहुना जनानां
संहारकाल इव स द्विपरूपधारी ॥ ८३ ॥ इत्यागमं करटिनो मुनिसूचितस्य
श्रुत्वा जहर्ष हृदयेऽधिपतिर्धरित्र्याः । भेजे विषादमपि किंचिदुदारबुद्धि
१ःसाध्यतां परिमृशन्मनसा तदीयाम् ॥ ८४ ॥ तस्मान्न दुष्टकरिणो यदि पौरलोकं
रक्षामि तन्मम वृथा क्षितिपालशब्दः ।