________________
११ सर्गः ]
चन्द्रप्रभचरितम् ।
ध्यायन्गुरून्गुणगुरून्हृदयेन पञ्च प्राणान्समाधिमरणेन मुनिर्मुमोच ॥ ७२ ॥ प्राप्याच्युतं सपदि कल्पमथाच्युतेन्द्रो' भूत्वा सरोजनयनो नयनाभिरामः । सम्यक्त्वरत्न रुचिरोऽनुभवन्स तस्थौ
दिव्यं सुखं द्यधिकविंशतिसागरायुः ॥ ७३ ॥ च्युत्वा ततो विगलितायुरसाविहाभू
स्त्वं रत्नसंचयपुरे नृप पद्मनाभः । पुत्रो जगद्विजयिनः कनकप्रभस्य
माता च ते जनमनोज्ञ सुवर्णमाला || ७४ ॥ जन्मावलीमिति यथावदसौ निगद्य तूष्णीमभून्मुनिपतिर्मुनिवन्द्यपादः । राजापि पूर्वभवकीर्तनहृष्टरोमा
बद्धाञ्जलिर्मुनिवृषं पुनरित्युवाच ॥ ७५ ॥
जन्मान्तराणि भगवन्भवतः प्रसादाज्ज्ञातानि संशयमुपैति तथापि चेतः । तत्प्रत्ययं कमपि नाथ कुरुष्व येन
निःसंशया भवति धीर्मम संशयाना ॥ ७६ ॥
तद्भारतीमिति निशम्य जगाद भूपं संदेहपङ्कमपहस्तयितुं मुनीन्द्रः । यूथं त्वदीयनगरे दशमेऽह्नि हित्वा
दन्ती मदान्धमतिरेष्यति कश्विदेकः ॥ ७७ ॥ तत्प्रत्ययात्स्वयमिदं न चिरेण राज
निश्चेष्यसि त्वमखिलं वचनं मदुक्तम् ।
प्रत्यक्षमन्यदथवा जगति प्रमाणं
संवादकं मतिमतां सकलं प्रमाणम् ॥ ७८ ॥
चन्द्र० ९
८९