SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८८ काव्यमाला | दयावतो धर्मधनस्य धीमतामनिन्द्यवृत्तस्य परार्थसंपदः । चरित्रमेतगृहमेधिनोऽपि ते तपोभृतांमाचरणान्न भिद्यते ॥ ६० ॥ दयापरः साधुरतः परत्रधीरतस्त्वमेतामनुशाधिमेदिनीम् । समुद्धरंल्लोकमनाथमायुगं किमस्ति दीनोद्धरणात्परं तपः ॥ ६१ ॥ उदीरितायामिति वाचि सूरिणा पतिः प्रजानामचलान्तराशयः । समाहितः श्रेयसि पक्षमात्मनः पुनर्दृढीकर्तुमथोपचक्रमे ॥ ६२ ॥ शिरः समभ्यर्च्यमपीश लङ्घयते मया यदेतद्भवतोऽनुशासनम् । विहाय जन्मव्यसनानि विद्यते मुनीन्द्र नैवापरमत्र कारणम् ॥ ६३ ॥ बहुप्रकारा यदि न स्युरङ्गिनामनिष्टयोगादिकृता दुराधयः । जिनेन्द्रचन्द्राचरितं सुदुःसहं सहेत कः सत्यमिदं महाव्रतम् ॥ ६४ ॥ विचित्रदुःखा भवमृत्युसंततिः प्रलीयते चेगृहमेधिनामपि । भवादृशामेव विवेकचक्षुषां भवेथा तर्हि तपः परिश्रमः ॥ ६५ ॥ इति ब्रुवन्तं तमुदारचेष्टितं जिनेन्द्रदीक्षानिहितैकमानसम् । 'विनिश्चितैकान्ततदीयनिश्चयो विशामधीशं मुनिरन्वमन्यत ॥ ६६ ॥ ततः स तेनानुमतो महीपतिर्वितीर्य राज्यं जितशत्रु सूनवे । तपोऽग्रहीत्संयमभारभूषणं विमुक्तये मुक्तपरिग्रहग्रहः ॥ ६७ ॥ तपश्चरन्घोरमघोरमानसः स्थिरैकपर्यङ्ककृत स्थितिर्बहिः । निनाय निस्त्रिंशहिमानिलाहतो निशा धृतिप्रावरणः स हैमनीः ॥ ६८ ॥ बिभीषणोल्काशतपातदुःसहे घनागमे घोरघनान्धकारिणि । स वारिधारा मुसलाकृतीः कृती क्षपासु सेहे तरुमूलमास्थितः ॥ ६९॥ तपेऽभिसूर्यप्रतिमं व्यवस्थितः स तप्तसूचीसदृशै रवेः करैः । न तुद्यमानोऽपि चचाल योगतः स्थिरा हि सन्तः करणीयवस्तुनि ॥ ७० ॥ मनो दधद्वादशसु प्रतिक्षणं स भावनासु ध्रुवमध्रुवादिषु । क्षुदादिभिः क्षुण्णमदो न बाधितुं परीषहैर्जातुचिदप्यशक्यत ॥ ७१ ॥ इत्थं विधाय विविधं स तपस्तपश्री - व्यालिङ्गितः परिणतोज्ज्वलधर्मलेश्यः ।
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy