________________
तक मतस्तस्य सतां सरस्पृहो गुणाः पार्थिव
११ सर्गः]
चन्द्रप्रभचरितम् । कषायनाम्नां विजयेन वैरिणामनश्वरश्रीप्रतिबन्धकारिणाम् । तवेश यः प्रादुरभून्महोदयो भवादृशामेव गिरां स गोचरः ॥ ४७ ॥ स्तुतिं विधायेति मुनेर्मनोहरां पुरो निषण्णे विनयेन भूपतौ । सविग्रहप्रश्रयपुञ्जशङ्किनां निपेतुरक्षीणि समं तपोभृताम् ॥ ४८ ॥ प्रवृत्तसंभाषणयोर्मिथस्तयोरुदंशुदन्तद्युतिदीपिताशयोः । धृतैकचन्द्रद्युजिगीषया खयं मही तदा द्वीन्दुरिव व्यजायत ॥ ४९ ॥ महीभृतस्तस्य सतां प्रणायकः स धर्मवृद्धिं परिघुष्य पावनीम् । विलोकिताशेषमुखेन्दुरस्पृहो गुणानुरागाद्रिमित्युपाददे ॥ ५० ॥ निमित्तभावेन मदस्य भूयसो निसर्गतः पार्थिवता व्यवस्थिता । महानुभावे पुनरत्र सान्यथा प्रवर्तते पश्यत पश्यताद्भुतम् ॥ ५१ ॥ नयेण नृणां विभवेन नाकिनां गतस्पृहाणां विनयेन योगिनाम् । महीभुजामेष निजेन तेजसा तनोति चित्ते सततं चमत्कृतिम् ॥५२॥ तुलां व्यतीतो विनयः क चेदृशः क्व सार्वभौमीप्रभुतेयमीदृशी । निषेव्यते सर्वगुणो गुणैरयं परस्परप्रीतिमुपागतैरिव ॥ ५३ ॥ न तादृशीखे विभवे न बान्धवे न चापि संसारमुखे मनोहरे । यथास्य चिन्ता परलोकसाधने हितानुबन्ध्याचरितं महात्मनाम् ॥५४॥ वदन्तमेवं तमुवाच भूपतिः समासतः प्रश्रयनम्रमस्तकः । पिपासतस्तावकमेव धाम मे त्वदागमः पूर्वकृतैः कृतः शुभैः ॥ ५५ ॥ पदातिपूर्वा विभवाश्च बान्धवा भवन्ति पाते शरणं न दुर्गतौ । समाकलय्येति मम प्रवर्तते त्वदीयसेवास्पृहमेव मानसम् ॥ ५६ ॥ प्रसीद नस्तद्वरदात्मदीक्षया यतः प्रसादो भवतः कियानपि । शुभं तनोत्याशु निहन्ति चाशुभं करोति किं वा न सतामनुग्रहः॥५७॥ निवेदितान्तःकरणस्य भूभुजः परीक्षितुं साहसिकस्य साहसम् । तदीयवाञ्छाविनिवर्तनोचितं पतिर्मुनीनां पुनरित्यवोचत ॥ ५८ ॥ तपो वपुर्भिः कठिनैः सुदुष्करं यदर्पितं साधुजनेन मादृशा । कथं सहेरन्सुकुमारमूर्तयो भवादृशाः कुङ्कुमलेपलालिताः ॥ ५९ ॥