________________
काव्यमाला।
गतस्य तस्योपवने महीपतिर्निदर्शयामास समुत्कचेतसः। विविक्तमत्यन्तमजन्तुकं शुचिं महामुनेराश्रममाश्रितं श्रिया ॥ ३४ ॥ गृहीतयोगं तपसा कृशीकृतं ददर्श कंचिन्मुनिमातपस्थितम् । दिवाकरांशुप्रकरैकलक्ष्यतां प्रयान्तमुन्मूलितमोहविद्विषम् ॥ ३५ ॥ प्रभावनायां जिनवम॑नो रतं विशुद्धसिद्धान्तपयोधिपारगम् । समुद्यतं धर्मकथाप्रवर्तने यतिं धरित्रीपतिरेक्षतापरम् ॥ ३६ ॥ नयप्रमाणांशुभिरुज्ज्वलात्मभिः प्रवादि खद्योतचयं पराभवम् । नयन्तमुद्दयोतितलोकमैक्षत प्रजापतिः कंचन साधुभास्करम् ॥ ३७ ॥ त्रिकालमध्यस्थमनन्यगोचरं परोक्षवस्तूपदिशन्तमञ्जसा । खमार्गमाहात्म्यनिदर्शनोद्यतं व्यलोकतान्यं स नृपस्तपोधनम् ॥ ३८ ॥ अनेकचेष्टैरिति पर्युपासितं तपस्विवृन्दैरविनिन्द्यवृत्तिभिः । नरेश्वरस्तं प्रणिपत्य योगिनामधीश्वरं स्तोतुमिति प्रचक्रमे ॥ ३९ ॥ मनखिभिर्नाथ भवान्भवान्तकृद्विचिन्त्यते यैः क्षणमात्मवेदिभिः । व्रजन्ति तेऽप्यात्तशुभाः कृतार्थतां कृतार्थ दृष्टे त्वयि का विचारणा४० जगन्महामोहतमःपटावृतं कुदृष्टिसेवापरिवृद्धविभ्रमम् । कथं विबुध्येत तवांशुमालिनो न संचरेयुर्यदि वाङ्मरीचयः ।। ४१ ॥ निराश्रयाणां पततामधोगतावसि त्वमालम्बनमीश देहिनाम् । त्वमेव सोपानपथः स्थिरश्रियो विमुक्तिसौधाग्रभुवं यियासताम् ॥४२॥ खभावजैः क्षान्तिदयादमादिभिः परिस्फुटत्कुन्दसमानकान्तिभिः । प्रकाशितं विश्वममेयतां गतैस्त्वया गुणैश्चन्द्रमसा च रश्मिभिः ॥४३॥ जगत्यमुप्मिन्दिवसाधिपोपम त्वदीयवाग्भासुररश्मिभासिते । न मार्गशुद्धिहतकैरलम्भि यैर्न तैर्न घूकायितमत्र जन्तुभिः ॥ ४४ ॥ विभिन्दतो हार्दमनेकजन्मजं तमस्तवाशेषजगद्गुरो न यैः । विलोकितं वक्रमपूर्वभाखतो वृथैव तेषां बत जन्म जन्मिनाम् ॥४५॥ अपायमुक्तां पदवीं परे न यां चिरादपि प्रापयितुं परिक्षमाः । त्वदाश्रयस्तामचिरेण लम्भयन्करोति नश्वेतसि नाथ विस्मयम् ॥ ४६॥