________________
११ सर्गः]
चन्द्रप्रभचरितम् । नरो विवध्येत सरागतां गतो न कर्मभिस्तद्विपरीतभावनः । निरन्तरं मुञ्चति वारि वारिदे विगाहितुं धूलिरलं हि नाम्बरम्॥२१॥ चराचरे नास्ति जगत्यभोजि यन्न जन्तुभिर्जन्मपयोधिमध्यगैः । किमेष लोको विषयान्धलोचनः पराङ्मुखो रूपति मोक्षसाधनात्॥२२॥ दुरन्तभोगाभिमुखां निवर्तयेन्न शेमुषीं यः सुखलेशलोभितः। कथं करिष्यत्युपरूढिमागतामिमां स जन्मव्रतति विनाशिनीम् ॥२३॥ मनुष्यजन्मेदमवाप्य दुर्लभं क्षयात्कथंचिन्मलिनस्य कर्मणः । भवाम्बुराशौ पुनरापदां पदे पतन्ति ते ये न हिते विजाप्रति ॥ २४ ॥ यदीदमागन्तुकदुःखकारणं प्रशस्यते संसृतिसौख्यमज्ञकैः । तदा प्रशंसापदमेतदप्यहो विषान्वितस्यास्तु गुडस्य भक्षणम् ॥ २५ ॥ निहत्य नूनं शमखड्गधारया विबन्धकानद्य कषायविद्विषः । वरीतुमिच्छोर्मम सिद्धिकामिनी विबन्द्भुमीष्टे जगतीह कः परः ॥२६॥ समुद्धतान्पापरिपून्हनिष्यतो वशं खकर्म प्रकृतीश्च नेष्यतः। तपोवनं प्राप्तवतोऽप्यखण्डितं तदेव राज्यं मम सिद्धिभागिनः ॥२७॥ त्वमेव भोगामिषलोभ्यलोकयः कदर्थनीश्चित्त चिरं चतुर्गतीः । प्रशान्तिमायाहि ममाधुनापि किं करिष्यसि क्लेशमतःपरं परम् ॥२८॥ विवेकिनो जन्मविपत्तिभीरवो निरापदां संपदि बद्धचेतसः । अपीन्द्रियानीकजये यदीशते न मद्विधाः सिद्धिवधूरभर्तृकाः ॥ २९ ॥ निवर्तितात्मा विषयेभ्य इत्यसौ पुनर्भविष्यद्भवभारभीलुकः । चकार चित्तं चतुरस्तपोवने हितान्न योऽपैति स एव पण्डितः ॥३०॥ विहर्तुमत्रावसरे समागतं महीपतिर्भूरिगुणं गुणप्रभम् । सवृन्दमज्ञानतमस्तमोरिपुं मुनीन्द्रमुद्यानचरादबुद्ध सः ॥ ३१ ॥ निशम्य तस्यागमनं स पावनं शिवंकरोद्यानमुपेत्य तस्थुषः । मुदाभ्युदस्थादचिरेण विष्टरात्कृती कृतार्थोऽहमिति ब्रुवन्वचः ॥ ३२ ॥ जनेन पौरेण वृतः पुरादसौ निरित्य तद्धाम जगाम भूपतिः । प्रचालयन्धर्मकथां समं नृपैः समन्वितैः संसृतिदुःखभीरुभिः ॥ ३३ ॥