________________
काव्यमाला |
हातं तं मदमूढमानसो जनस्य हाहेति रवेण पश्यतः । तथा समास्फालयति स्म भूतले यथा स सर्वावयवैर्व्ययुज्यत ॥ ८ ॥ विलोक्य तं शारदमेघवत्क्षणाद्विलीनमङ्गेन च जीवितेन च । कृपाङ्गनालिङ्गिततुङ्गमानसो जगाम निर्वेदमिति क्षितीश्वरः ॥ ९ ॥ अहो नराणां भवगर्तवर्तिनामशाश्वतीं पश्यत जीवितस्थितिम् । ययातिदूरेण जिताः खचापलात्तडिद्विलासाः शरदम्बुदैः समम् ॥ १० ॥ गदेन मुक्तोऽशनिना कटाक्ष्यते तदुज्झितः शस्त्रविषाग्निकण्टकैः । अनेकमृत्यूद्भवसंकटे नरः कियद्वराकश्चिरमेष जीवति ॥ ११ ॥ वपुर्धनं यौवनमायुरन्यदप्यशाश्वतं सर्वमिदं शरीरिणाम् । तथाप्ययं शाश्वतमेव मन्यते जनः प्रमोहः खलु कोऽप्ययं महान् ॥ १२॥ इदं करोम्यद्य परुद्दिनेविदं परार्यदश्च प्रविधेयमित्ययम् । अनेककर्तव्यशताकुलः पुमान्न मृत्युमासन्नमपीक्षितुं क्षमः ॥ १३ ॥ बिभेति पापान्न सतामसंमतान्न मन्यते दुर्मतिदुःखमुद्धतम् । विलोभ्यमानो विषयामिषाशया करोत्य कर्तव्यशतानि मानवः ॥ १४ ॥ मदान्धकान्तानयनान्तचञ्चलाः सदा सहन्ते न सहासितुं श्रियः । ज्वलज्जरावज्रहविर्भुजो जये कियच्चिरं स्थास्यति यौवनं वनम् ॥ १५ ॥ क्रियावसाने विरसैर्मुखप्रियैः स्वयं विहास्यैर्विषयैर्विनाशिभिः । विलेख्यते कालमरीचिमालिनः करैर्हतं हा हिमसंनिभं वपुः ॥ १६ ॥ शनैर्विहास्यन्ति गतश्रियं न मां न बान्धवा बद्धधनर्द्धिबुद्धयः । फलप्रसून प्रलये हि कोकिला भवन्ति चूतावनिजं जिहासवः ॥ १७ ॥ प्रपित्सु संपक्कफलोपमान्वितं जगत्यहो जीवितमत्र जीविनाम् । विलीयमाना निचयाः क्षणक्षयाः शुभाशुभं नंष्टुमनीश्वरं परम् ॥ १८ ॥ कषायसारेन्धनबद्धपद्धतिर्भवामिरुत्तुङ्गतरः समुत्थितः ।
न शान्तिमायाति भृशं परिज्वलन्न यद्ययं ज्ञानजलैर्निषिच्यते ॥ १९ ॥ दुरात्मकादेव भवाद्भयंकराद्भवन्त्यनर्था वधबन्धनादयः । न ते स्युरुत्खाततलः स चेद्भवेदहेतुकाः क्वापि न कार्यसंपदः २० ॥
८४