SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः] चन्द्रप्रमचरितम् । ८३ वन्दिभ्यो ललितपदक्रमाभिरामां संशृण्वन्निति दयितोपमां स वाणीम् । निःस्यन्दोच्छ्रसदुदरप्रसुप्तभृङ्गैरम्भोजैः सममभजन्नृपः प्रबोधम् ॥ ७७ ।। अथ कथमप्यपास्य दयिताभुजपाशमसा वरुणरुचा प्रसाधयति पूर्वदिशं तपने । रतिकलहप्रसङ्गगलितोज्ज्वलहारमणि प्रकरचितं पयोनिधिमिव व्यमुचच्छयनम् ।। ७८ ॥ द्वाराग्रग्रथितामलारुणमणिज्योतिर्मिरुत्सर्पिभि भिन्नाङ्गावयवः स्वभावमहता दीप्तो वपुस्तेजसा । धर्माशोरुदयाचलेन्द्रशिखरादभ्युधियासोः श्रियं भेजे भूमिपतिः स वासभवनान्निर्यञ्जनानन्दितः ॥ ७९ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये दशमः सर्गः । ____एकादशः सर्गः। अथ प्रवृद्धे दिवसे विशांपतिर्विधाय स स्नानपुरःसराः क्रियाः । गृहीतवस्त्राभरणोऽधिशिश्रिये सभागृहं कल्पितसिंह विष्टरम् ॥ १॥ तमेत्य सर्वावसरव्यवस्थितं प्रधानदौवारिकसूचितागमाः। महीतलाश्लिष्टशिखेन मौलिना नृपाः प्रणेमुः प्रणतैकवत्सलम् ॥ २॥ ततः प्रतीहारकृतप्रवेशने यथायथं सभ्यजने व्यवस्थिते । विलोकयामास स सेवयागतं सभाजिरे राजगजं प्रजापतिः ॥ ३ ॥ अनल्पसत्त्वं गुरुवंशशालिनं प्रलम्बहस्तं खमिवावलोक्य तम् । मतङ्गजं क्रीडयितुं कुतूहलादचूचुदद्वीरनरान्नराधिपः ॥ ४ ॥ तदाज्ञयैकः समुपेत्य धीरधीर्जघान मुष्ट्या घनपीवरे करे । तमेति यावत्स जवेन पृष्ठतस्तुतोद तावद्भुशंमारयापरः ॥ ५ ॥ निवृत्य यावत्किल पृष्ठवर्तिनं प्रतिप्रधावत्यतिकोपदीपितः । निपत्य तावन्निजलाघवात्परश्वकार पार्थे घनलोष्टताडनम् ॥ ६ ॥ विनीयमानो नृपशासनान्नरैः कृतक्रियैरित्थमसौ मतङ्गजः । प्रधावितुं कंचिदशक्तमुद्धतः करेण जग्राह पुरः प्रसारिणा ॥ ७ ॥ १. लोहसूचीविशेषेण.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy