________________
काव्यमाला ।
सुहृदर्थपरैर्महात्मभिर्न पुनः स्वार्थपरैरुदीयते । यदभूद्रजनीकरोदयः परिवृद्ध्यै स्मरशक्तिसंपदः ॥ ३८ ॥ बभुरौषधयः समन्ततः शिखरे भूमिभृतां ज्वलच्छिखाः । क्षणदाङ्गनयेव दीपिका हरिणाङ्काभिगमे प्रदीपिताः ॥ ३९ ॥ निजधामविवृद्धिकारिणी न परं चन्द्रमसा विभावरी । कुमुदिन्यपि भासिता सतां निरपेक्षा हि परोपकारिता ॥ ४० ॥ परिणामिनि यामिनीमुखे हरिणा च कठोरतेजसि । जगृहेऽथ विविक्तमास्पदं रतये रागिभिरङ्गनासखैः ॥ ४१ ॥ विरहे तनुतामतीव दधुरङ्गावयवा नतभ्रुवाम् । ये प्रियसंगमजन्मभिर्ययुः पुलकैस्ते पुनरेव पीनताम् ॥ ४२ ॥ हठकारिणि यावदङ्गनाः प्रतिकूलं क्षणमाचरन्प्रिये । निजशासनभङ्गसेर्ष्यधीरिव तावद्धनुराददे स्मरः ॥ ४३ ॥ नवसंगमजन्मना ह्रिया नतमूर्ध्नामरविन्दचक्षुषाम् । भयमिश्रमपीयताधरो हठवृत्त्युन्नमिताननैः प्रियैः ॥ ४४ ॥ पतिरङ्गनया न्यषेधि यत्परिरम्भेऽधरपीडनेऽपि वा । विपरीततया मनोभुवस्तदभूद्रागविवृद्धयेऽखिलम् ॥ ४५ ॥ हतदृक्प्रसरा निरन्तरस्तनभारेण ददर्श नाङ्गना । वसनं च्युतमप्यधः पतत्प्रियदृष्ट्यान्वमिमीत केवलम् ॥ ४६ ॥ सहसापहृताघरांशुकः किल यावज्जघनं कुतूहली । परिपश्यति तावदङ्गना प्रियमासञ्जयति स्म चुम्बने ॥ ४७ ॥ करताडनमास्यचुम्बनं परिरम्भो दशनच्छदग्रहः । विविधेति विलासिनां क्रिया मदनामेरभवद्धृताहुतिः ॥ ४८ ॥ हृदये हरिणीदृशां प्रियप्रथमालिङ्गनगाढपीडिते । पुलकैः प्रमदाङ्कुरैरिवानवकाशैः पदमादधे बहिः ॥ ४९ ॥ अनुरागपरापि बिभ्रती ह्रियमासन्नगते सखीजने । मुखचुम्बनलोलुपं प्रियं परिरम्भेण वधूरंजीगमत् ॥ ५० ॥ १. विलम्बयति स्म.
८०