SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] चन्द्रप्रभचरितम् । - ७९ अपहन्ति नरो निसर्गजानपि दोषान्गुणवन्तमाश्रितः । नभसा हि हिमांशुसंगमादपनीतं मलिनत्वमात्मनः ॥ २५ ॥ उदितेन पयोधिरिन्दुना परमां कोटिमनीयतोन्नतेः। महतां हि परोपकारिता सहजा नाद्यतनी मनागपि ॥ २६ ॥ विकसत्कुमुदाकरं सरः प्रकटोडप्रकरं नभःस्थलम् । द्वयमाप परस्परोपमां करजाले शशिनः प्रसर्पति ॥ २७ ॥ रजनी तमसान्त्यजातिना परिमृष्टा घनवर्त्मवर्त्मनि । प्रविधातुमिवात्मशोधनं प्रविवेशेन्दुमहोमहाहदे ॥ २८ ॥ तिमिरेभमदुर्न हिंसितुं शशिसिंहाय गुहाश्रितं नगाः । शरणागतरक्षणं सतां नहि जातु व्यभिचारमेष्यति ॥ २९ ॥ विबभावधिरोहदम्बरे विधुबिम्ब क्षणमुद्गमारुणम् । जनयद्धरिदिग्वधूजपाकुसुमापीडवितर्कमङ्गिनाम् ॥ ३० ॥ समभूत्सुखिचक्रवाकयोमिथुनं संगमहृष्टमहि यत् । निशि तद्विरहार्तिविह्वलं घिगिमां दग्धविधेर्विडम्बनाम् ॥ ३१ ॥ यदधुः प्रियकोपधूपिते हृदि मानग्रहचल्यमङ्गनाः । विधुरुद्धरति म दुर्धरं करसंदंशकताडनेन तत् ॥ ३२ ॥ हिमरश्मिकरापसारित तिमिरे काण्डपटस्फुटोपमे । रुरुचेऽम्बरकुट्टिमं स्थितैः सितपुष्पप्रकरैरिव ग्रहैः ॥ ३३ ॥ रजनीपतिना प्रतर्जितं करकुन्तैर्भुवनान्तवर्ति यत् । प्रविवेश वियोगिनीमनःखिव मूर्छाकृतकेन तत्तमः ॥ ३४ ॥ क्षणदानिलभासुरीभवद्विरहामिज्वलितेन चेतसा । वनिताभिरचिन्ति चित्तभूशरशाणाकृति चन्द्रमण्डलम् ॥ ३५ ॥ शिशिरांशुकराभिमर्शनाद्रजसाविर्भवता समन्ततः । मकरन्दमयेन निर्बभाविव निर्यत्पुलका कुमुदती ॥ ३६ ॥ रजनीपतिबिम्बदर्शनाप्रियसङ्गत्वरमाणचेतसाम् । परिवृद्धिमियाय योषितां हृदये कामपि रागसागरः ॥ ३७॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy