________________
काव्यमाला।
विनिवृत्तनिजाह्निकक्रियं विगतालोकमुपात्तसंभ्रमम् । परिवृत्तिमगादिवाखिलं भुवनं संतमसावगुण्ठितम् ॥ १२ ॥ न जहाति पुमान्कृतज्ञतामसुभङ्गेऽपि निसर्गनिर्मलः । रविणा गमितः समुन्नतिं सह तेनास्तमियाय वासरः ॥ १३ ॥ गुणवान्समुपैति सेव्यतां गुणहीनादपरज्यते जनः। दिवसापगमे मलीमसं कमलं पश्य समुज्झितं श्रिया ॥ १४ ॥ ककुभां विवरेषु तारका विहतध्वान्तलवाश्चकासिरे । गलिता इव मित्रविप्लवे गगनस्योग्रशुचोऽश्रुबिन्दवः ॥ १५ ॥ गलिताश्रुभिरातनिःखनैर्बहलध्वान्तमषीमलीमसैः । विरहानलधूमधूसरैरिव चक्राह्वयुगैर्व्ययुज्यत ॥ १६ ॥ विसरन्बिसतन्तुनिर्मलो विवभासेऽथ नभः पयोनिधौ । निकरो रजनीपते रुचामिव मुक्ताफलरोचिषां चयः ॥ १७ ॥ प्रसृतालकतुल्यलाञ्छनातिरद्यन्तरितार्धमण्डलः । ब्रजति म ललाटपट्टतां क्षणमात्रं बलभिदिशः शशी ॥ १८ ॥ विदधत्तिमिरं तिरोहितं करजालैगगनान्तगामिभिः । अभवद्रजनीकरः क्रमादुदयाद्रीन्द्रशिरःशिखामणिः ॥ १९ ॥ उदयाद्रिशिरः श्रितः शशी शशमन्तर्गतमाजिघांसुना । तमसा शबरेण सायकैरिव विद्धोऽधिजगाम रक्तताम् ॥ २० ॥ धनवीथिरथं क्षपापतावधिरूढे धृतधामधन्वनि । उपभुक्तनिशं तमो भयात्परदारग्रहजादिवाद्रवत् ॥ २१ ॥ विगलत्तिमिरावगुण्ठनामुडुधर्मोदकबिन्दु संभृताम् । ददृशुः शिशिरांशुसंगमे सुरतस्थामिव शर्वरीं जनाः ॥ २२ ॥ भवतीह विनापि हेतुना घटना कस्यचिदेव केनचित् । विकसद्भिरिति स्फुटीकृतं कुमुदैरेव निशाकरोदये ॥ २३ ॥ प्रविकासिनि यन्न्यलीयत भ्रमराणां कुमुदानने कुलम् । तिलकं तदभूप्रसाधनं कुमुदिन्यास्तुहिनांशुसंगमे ॥ २४ ॥