________________
१० सर्गः ]
चन्द्रप्रभचरितम् ।
गत्वा भूयः पुरमुदयवांस्त्यक्ततोयावगाह
व कृत्स्नं सह परिजनैरन्नपानादिकृत्यम् ॥ ५९ ॥
इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये नवमः सर्गः ।
१-७७
दशमः सर्गः ।
इतरेषु जनेषु का कथा न सुरेष्वप्युदया निरत्ययाः । इति सूचयितुं शरीरिणां रविरस्ताद्रिमथाधिशिश्रिये ॥ १ ॥ प्रियसङ्गसमुत्सुकाङ्गनानयनप्रान्तशरैरिव क्षतः । तनुमावहति स्म भानुमानरुणाम्भोरुहभारसंनिभाम् ॥ २ ॥ दिवसाधिपवल्लभागमे वरुणाशा परिलोहितानना । स्वयमेव समेत्य कुङ्कुमैः कृतचर्चेव रराज संध्यया ॥ ३ ॥ परकृत्यविधौ समुद्यतः पुरुषः कृच्छ्रगतोऽपि पूज्यते । शिरसास्तमयेऽप्यदीधरद्यदशीतद्युतिमस्तभूधरः ॥ ४ ॥ मयि पश्यति माभिभूयतां तमसेदं मलिनात्मना जगत् । इति तर्कयतेव मण्डलं दिनभर्त्रान्तरधीयतात्मनः ॥ ५ ॥ बलवान्विधिरेव देहिनां न सहाया न मतिर्न पौरुषम् । तमसा स तथा प्रतापवान्दिननाथोऽपि यद्भ्यभूयत || ६ || विषये गुणवृद्धिवर्जिते गुणहीनाः प्रभवन्ति का गतिः । गगनं हि तमोभिरावृतं मलिनैरस्तमिते दिनाधिपे ॥ ७ ॥ कृतदीप्तरवैर्विहंगमैर्निजनीडाभिमुखैः समाकुलाः । वियुता इव पद्मबन्धुना प्रविलापं विदधुर्दिगङ्गनाः ॥ ८ ॥ ककुभो मलिनात्मनाखिलं तमसा व्याप्तमवेत्य विष्टपम् । ययुरस्तमुपागते वाविव विध्वंसभयाददृश्यताम् ॥ ९ ॥ अवभास्य जगद्भुहं करै रविदीपे विरतिं गते तमः । प्रसरद्ददृशे शनैः शनैरिव तत्कज्जलमम्बरे जनैः ॥ १० ॥ तमसाखिलमेव कुर्वता निजसङ्गेन जगन्मलीमसम् । इति देवतां स्फुटीकृतं गुणदोषाः सदसत्प्रसङ्गजाः ॥ ११ ॥
चन्द्र० ८