SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] चन्द्रप्रभचरितम् । जनभयपरिविद्रुतेऽपि पत्यौ युवतिघनस्तनबिम्बमोहितायाः । ... सलिलगतविमुग्धकोकवध्वा विरहभवव्यथया न संबभूवे ॥ ३४ ॥ इयमिह पुलिने निसर्गरम्ये चकिततया स्थिरतामनचवाना । गतिमिव परिशिक्षितुं त्वदीयां सुतनु करोति गतागतानि हंसी ॥३५॥ अयमपि मधुरखरोऽभिसर्पन्मधु मधुपः परिहृत्य पद्मिनीजम् । अहमिव परिपातुमाननंते सुमुखि निसर्गसुगन्धि वाञ्छतीव ॥ ३६ ॥ अयमनभिमुखीं सुकेशि कोकः समनुनयन्बहुचाटुभिः खजायाम् । प्रकुपितदयिताप्रसादहेतूनुपदिशतीव ममापि चाटुकारान् ॥ ३७ ॥ इयमपि शफरी समुत्पतन्ती गगनमितः सलिलादनेकवारान् । ध्रुवमपहृतविभ्रमा भवत्या नयनयुगेन नताङ्गि पूत्करोति ॥ ३८ ॥ इदमिदमिति दर्शयन्नशेष सलिलनिवासिमनोज्ञसत्त्ववृत्तम् । अरमयत युवा चकोरनेत्रां सरसि तदंसविलम्बिवामबाहुः ॥ ३९ ॥ मुखमसदृशविभ्रमैर्विदित्वा सुभगतनोररविन्दमध्यगायाः । सरसिजमिदमित्युपेत्य शाठ्यादविदिततत्त्व इवापरश्चुचुम्ब ॥ ४० ॥ सरसिजरजसारुणे सपल्याः स्तनयुगले नखशङ्कया कृतेर्थ्यो । किमपि न दयितं जगाद काचित्परमवधीत्परिभङ्गुरैः कटाक्षैः ॥ ४१ ।। निजमधुरविलासशोभितानां सलिलविहारजुषां विलासिनीनाम् । वदनशशिजिताम्बुजानुमम्लौ दरमलिना नु मृणालिनी जनौधैः ॥४२॥ अधरदलगतं निधाय रागं स्खवपुषि यावकसंभृतं वधूनाम् । विदधति हृदयं स रागमासां विनिमयवृत्तिमशिश्रियञ्जलानि ॥४३॥ कठिनकुचविचूर्णितोप्यपप्तद्धृदि मुहुरूर्मिचयो विलासिनीनाम् । ब्रजति खलु बुधोऽपि विप्रमोहं युवतिषु कैव कथा जलात्मकानाम्॥४४॥ कृतदयितविवञ्चना मुहूर्त यदकृत वारिणि मज्जनं मृगाक्षी । स्फुटमजनि तदंगरागगन्धादुपरि परिभ्रमतालिनीकुलेन ॥ ४५ ॥ ब्रजति मम जलक्रिया समाप्तिं वरतनु तावक एव कान्तितोये । किमपरमधिकं जलैर्विगाटैरिति दयितां दृढमालिलिङ्ग कश्चित् ॥ ४६ ॥ १. पूत्करणमार्तव्याहरणम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy