________________
७४
काव्यमाला।
प्रगमितमरविन्दलोचनायाः प्रणयवता श्रवणावतंसभावम् । खयमतिविहितादरेण शोकं व्यतरदशोकमपि प्रतीपपत्याः ॥ २१ ॥ कुसुमकिसलयं विचेतुकामां विटपिनि सत्यपि नम्रनम्रशाखे । तरुमनयत तुङ्गमेव भर्ता भुजयुगमूलदिदृक्षया मृगाक्षीम् ॥ २२ ॥ तिलकमिति यदत्र पूर्वमासीद्भुवि विदितं खलु नाममात्रकेण । कुवलयनयनाभिरुत्तमाङ्गे निहितमवाप यथार्थतां तदानीम् ॥ ॥ २३ ॥ वपुषि कनकभासि चम्पकानां सुदति न दे परभागमेति माला । स्तनतटमिति संस्पृशन्प्रियाया हृदि रमणो बकुलस्रजं बबन्ध ॥ २४ ।। स्फुटमिह कमनीयमन्यथा वा न किमपि भावकृतस्त्वयं विभागः । समजनि यदशोकतः पलाशं प्रियमवतंसितमीश्वरेण वध्वाः ॥ २५ ॥ ऋतुजनितरुचिर्वधूसमूहैरवचितपुष्पचयश्च यस्तरूणाम् । मुदित इव परार्थयात्मलक्ष्म्या पवनधुतैर्नवपल्लवैननत ॥ २६ ॥ इति वनविहृतिप्रसङ्गखिन्नं निखिलमवेत्य जनं खमप्यधीशः । सरसि शुचिजले ममज्ज सज्जीकृतजलकेलिपरिच्छदप्रपञ्चः ॥ २७ ।। हृषिततनुरुहाश्चिरेण भीरुप्रकृतितयाम्भसि नाभिमात्रकेऽपि । प्रियकरधृतपाणयो रमण्यः प्रविविशुराहितमन्दमन्दपादाः ॥ २८ ।। तदखिलमपि वारि निक्षिपन्त्यः कठिनपयोधरपीडनैः पुरस्तात् । पृथुतरनिजकुम्भनुन्नतोया वनकरिणीरनुचक्रुरजनेत्राः ॥ २९ ।। जलमकलुषमन्तरानुबध्नन्युवतिमुखप्रतिमां पयोजबुद्ध्या । श्रममफलमवाप मत्तभृङ्गो न खलु हितं मदमूढधीरवैति ॥ ३० ॥ सरलनवमृणालनालबाहुश्चपलशिलीमुखलोचना कृशाङ्गी । निजतनुमनुकुर्वती कयाचित्सरभसमम्बुजिनी समालिलिङ्गे ॥ ३१ ॥ अपहृतवसना वधूस्तरङ्गैः पृथुनि नितम्बतटे निविष्टदृष्टिम् । प्रियतममवलोक्य जातलज्जा कलुषयति स जलं विलोडनाभिः ॥३२॥ पयसि समवतीर्य नाभिदन्ने विलुलितकेशकलापबन्धनायाः । समजनि रभसोत्कटं तरन्त्याः स्तनयुगमेव तरण्डकं तरुण्याः ॥ ३३ ॥ १. प्लवः.