________________
८ सर्गः ]
चन्द्रप्रभचरितम् ।
कार्यस्त्वया स्मरनिवासनितम्बचुम्बी चीनांशुकेन पिहितो निजकेशपाशः ॥ ५४ ॥
माधुर्यमिच्छुरतिशायि परिग्रहीतुं
चूताङ्कुरग्रसनजातकषायकण्ठः । मूकीभवन्परभृतां निवहोऽपि नून
माकर्णयिष्यति तवानतगात्रि वाणीम् ॥ ५५ ॥
तत्र त्वदीयचरणाम्बुजताड्यमानौ द्वौ यास्यतः सुवदने सदृशीमवस्थाम् । सद्यो वहन्मुकुलजालमशोकशाखी
रोमाञ्चकञ्चुकितमूर्तिरहं द्वितीयः ॥ ५६ ॥ गत्या निसर्गपरिमन्थरया भ्रमन्तीं
त्वां संनिरीक्ष्य निवसद्वनदीर्घिकासु । हँसीकुलं न हरिणाक्षि जनिष्यते न
त्वच्छिष्यभावगमने स्पृहयालु मन्ये ॥ ५७ ॥ हस्तेन सुन्दर मुहुर्विनिवारितोऽपि भृङ्गस्तवाधरले नवविद्रुमाभे । धावन्नशोकनवपल्लवशङ्किचेताः
स्मेरं करिष्यति न कस्य मुखं वनान्ते ॥ ५८ ॥ पर्यन्तजाततरुजालनिरुध्यमान
भाखत्करेष्वपि वनान्तलतागृहेषु ।
त्वद्वत्रचन्द्ररुचिभिः प्रतिहन्यमानो
मुग्धाक्षि नः परिभविष्यति नान्धकारः ॥ ५९ ॥
दृष्टेर्मदालिषु लतासु शरीरयष्टे
रूर्वोर्विचित्रकदलीष्वधरस्य बिम्बे ।
संवाहिताङ्घ्रियुगला खसखीजनेन
सादृश्यमिन्दुवदने विहरेक्षमाणा ॥ ६० ॥
9
७१