________________
'काव्यमाला । क्षणमिति मधुराभिर्भूपतिर्भारतीभिः - स रहसि रमयित्वा वल्लभां बद्धभावाम् । निजनगरनिवेशे लोकमानन्दयन्ती
वनविहरणयात्राघोषणामादिदेश ॥ ६१ ॥ दिङागान्प्रतिदन्तिशङ्किमनसः श्योतत्कटान्कोपय
म्भःपूर्णपयोदरेकिहृदयानुत्कण्ठयन्केकिनः । नागानुत्फणयंश्चमत्कृतिभृतो भूभृत्तटांश्चालय
न्व्योम व्याप मृदङ्गभूरुदयवान्प्रस्थानशंसी ध्वनिः ॥ ६२ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्येऽष्टमः सर्गः ।
नवमः सर्गः। मधुविनिहितविभ्रमाभिरामां मदकलकोकिलनादिनीं नरेन्द्रः । परिजनपरिवारितो वनान्तश्रियमबलामिव वीक्षितुं प्रतस्थे ॥ १ ॥ ललितघनतमालका मनोज्ञद्विजसुभगास्तिलकाहितोरुशोभाः । स्तनजघनभरालसं प्रचेलुस्तुलितवनावलि विभ्रमा रमण्यः ॥ २ ॥ प्रणदितकलकाञ्चिनूपुरोत्थं ध्वनिमनुबध्नति राजहंसयूथे । सदृशगतिकुतूहलेन दृष्टिर्मुहुरपतद्वनिताजने च यूनाम् ॥ ३ ॥ सुललितगमनो न राजहंसः कलभपतिर्न च मन्थरप्रयातः । अलसगतिषु वामलोचनानां गुरुरजनिष्ट निजो नितम्बभारः ॥ ४ ॥ गगनमुभयतः प्रपूर्यमाणं हरिणदृशां चटुलैः कटाक्षपातैः। पवनविधुतनीलनीरजौघव्यतिकरिणः सरसो बभार लक्ष्मीम् ॥ ५ ॥ ललिततिलकमण्डनानि मुग्धे रचयितुमेष वृथा तव प्रयासः । मुखकमलमलंकरोति यत्ते पतदलिनीकुलमेव पद्ममोहात् ॥ ६ ॥ विरचयसि यमादरेण हारं तमपि तवाहमवैमि शुद्धभारम् । कमलमुखि पयोधरान्तराले श्रमजलबिन्दुविभूषिते व्रजन्त्याः ॥ ७॥ १. सजलजलधरशङ्किमनसः.