SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कंदरार्खनुकृताहिमवन्तं ध्वान्तराशिमचलं हिमवन्तम् । भानुराप शशिशुद्धनदायां भाति यो दिशि वसद्धनदायाम् ॥४६॥ लीनषट्पदकुला तिलकाली यद्विकासमगमत्तिलकाली । ... प्राप तेन मनसाँपमुदारं मानिनी मदनतापमुदारम् ॥ ४७ ॥ संनिषेव्य सततं कमलिन्या रागकारि मधु साकमलिन्या । यामि चक्रुरलयो ध्वनितानि के निशम्य ययुरध्वनि तानि ॥४८॥ शीतला इति विभाव्य जनेन पातिताः ससलिलव्यजनेन । को न जातविरहोऽतनुतापः क्वाथिताम्बुर्सदृशोऽतनुतापः ॥ ४९ ।। वीक्ष्य जातरुडिवासमहानि पद्मखण्डमविकासमहानि । तिग्मगुर्विहितवानहिमानि भाखतां न हृदयं नहि मानि ॥ ५० ॥ इत्थं मधौ मधुकरीमुखरीकृताशे - व्याजृम्भिते मकरकेतुनिसर्गबन्धौ । न भूयः प्रविश्य मुदितः सहसा निशान्तं विस्रब्धमित्यभिदधेऽङ्कगतां स देवीम् ॥ ५१ ॥ पश्य प्रिये परभृतध्वनितच्छलेन ___ मामेष दर्शयितुमाह्वयतीव चैत्रः । प्रादुर्भवत्तिलकपत्रविचित्रशोभां सीमन्तिनीमिव पुरोपवनस्य लक्ष्मीम् ॥ ५२ ॥ संभावयामि तदहं तमनङ्गबन्धु ___ गत्वा वने मलयमारुतनृत्तशाखे । तत्र त्वमप्यवनताङ्गि तिरोहितानां नेत्रोत्सवं कुरु गता वनदेवतानाम् ॥ ५३ ॥ हीतो विहाय मम लोचनहारि नृत्तं गन्तुं शिखी सुमुखि तत्र यदि व्यवस्येत् । .. १. सर्पवत्कृष्णमन्धकारसमूहम्. २. तिलवत्काली कृष्णा. ३. अपमुदा विगतहर्षेण मनसा. ४. कृतवान् जलानि. ५. जातक्रोधः. ६. असदृशहानियुक्तम्. ७. दिनानि. ८. अशिशिराणि. उष्णानीति यावत्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy