________________
८ सर्गः]
चन्द्रप्रभचरितम् । प्रागतीव मनसा समुदा यस्तस्थिवान्विरहिणीसमुदायः । सोऽतिदुःसहमनोभवदूनो माधवे सुखितयाभवदूनः ॥ ३५ ॥ कामशोकजलधेरुदितानि संहरालि सततं रुदितानि । मेरुभूधरसदृक्षममुक्तं धैर्यमापदसनक्षममुक्तम् ।। ३६ ॥ यस्तवावधिरकारि वसन्तः प्रेयसा निजगुणैरिव सन्तः । यत्र भान्ति कुसुमैरमलाभैः शाखिनो जनमनोरमलाभैः ॥ ३७॥ विप्रयोगकृशदारहितेन चेतसा कठिनतारहितेन । उत्सुको नहि विकासमयन्तं सोऽतिवर्तितुमलं समयं तम् ।। ३८ ॥ रक्ष तद्वपुरिदं नियमेन मा विधेहि लघुहानि यमेन । रम्यसेऽल्पदिवसैः सह तेन स त्वदीयविरहं सहते न ॥ ३९ ।। मन्ददीप्तिरसुखावहमाना जीविते शिथिलतां वहमाना। । दूरदिक्पतिरपोहितमाल्या काचनेति जगदे हितमाल्या ॥ ४०॥
(पञ्चभिः कुलकम् ) दारुणा विरचना भृकुटीनां साम्यमावहति सुभ्र कुटीनाम् । बिभ्रति प्रियतमे तव दास्यं कोपनं किमिति जातवदास्यम् ॥ ४१॥ का धृतिस्तव रतेन विना मे नोद्यताञ्जलिरहं न विनामे । किं वृथैव मयि मानममाने संतनोति भवति नममाने ॥ ४२ ॥ कान्तिवारिणि नभोवदनन्ते मग्नमम्बुजनिभं वदनं ते । पातुमुत्सुक इव भ्रमरोऽहं जायमानबहुविभ्रमरोहम् ॥ ४३ ॥ मन्मनः सुतनु भीमंदनेन बाध्यमानमनिशं मदनेन । वर्तते भज रुषस्तनिमानं मुञ्च पीवरतरस्तनि मानम् ॥ ४४ ॥ काचिदित्थमुदिता दयितेन प्रेम सार्धमकृतोदयि तेन । कं वचांसि रसभारचितानि प्रीणयन्ति न बुधै रचितानि ॥ ४५ ॥
(पञ्चभिः कुलकम् ) १. आपन्निवारणसमर्थम्. २. विद्वांस इव निजगुणैः. ३. यमेन शीघ्रनश्वरं वपुर्मा विधेहि. ४. दूरदिशि पतिर्यस्याः. ५. कर्कशा काष्ठेन च. ६. जातं मुखम्. ७. प्रह्वीभावे. ८. आकाशवदनन्ते लावण्ये. ९. भययुक्तम्. १०. उदययुक्तं प्रेम.