________________
६८
काव्यमाला ।
प्रीणिताहि नरदेव कुलानि प्रोल्लसन्ति नितरां बकुलानि । नीररिक्तजलवाहसितानां साम्यमापुरबलाहसितानाम् ॥ २४ ॥ काञ्चनारकुसुमे द्युतिमत्ता पितामलिनविद्युतिमत्ता । कुर्वती ध्वनिमेतारमतारं कालिनी न सरसारमतारम् ॥ २५ ॥ di शशाङ्करिणा विहन्ति मन्मथश्च नयकोविद हन्ति । पीडितां निजमनःकमलेन त्वद्वियोगभवशोकमलेन ॥ २६ ॥ शीतदग्धनलिनीसमदेहां वल्लभां च्युतविलासमदेहाम् । पासितां यदि गुणो भवतोऽयं देहि वा जितमनोभव तोयम् २७ यः प्रविश्य हृदये रजनीषु स्थैर्यवान्रतिपतेरेंजनीषुः । सुभ्रुवः स तव संगमनेन नोद्धृतो व्रजति सङ्गमनेन ॥ २८ ॥ गच्छ तत्सुभग सारर्मंयत्वं संप्रहाय दयितां रमय त्वम् । मॅन्मथव्यसनलाविरहस्य न क्षमेन्दुवदना विरहस्य || २९ ॥ दूतिको मिति कोऽपि निकामं शुश्रुवान्मनसि कोपिनि कामम् । तत्क्षणादुपययौ परमेण दीर्घमानकलुषो परमेण ॥ ३० ॥ (पञ्चभिः कुलकम् ) कर्णिकारमंधवाजनितान्तं चारु गन्धगुणतोऽजनि तान्तम् । सर्जने हि विधिरंप्रंतिमोहस्तस्य युक्तघटनां प्रति मोहः ॥ ३१ ॥ वृक्षपतियुवतेरधरेण चारुतापरमपारधरेण । किंशुकेन शुशुभे समयोऽसौ बिन्दुनेव सविलासमयोऽसौ ॥ ३२ ॥ गायनेष्वलिवधूनिकरेषु जातवत्सु शमहानिकरेषु ।
पुष्परेणुकृतपांसुलतानां नर्तको मरुदभूत्सुलतानाम् ॥ ३३ ॥ कैन्तुना भवदशोकबलेन मृत्युनेव सकलोऽकैवलेन ।
प्रस्यते स्म विरही प्रमदायाः संस्मरन्मुहुर कम्प्रमदायाः ॥ ३४ ॥
३. सतिलं जलाञ्जलिम्.
१. शरन्मेघशुभ्राणां हसितानाम् २ मन्दं मन्दम्. ४. अजनि इषुः . ५. तव संगमनेन उद्धतः अनेन हृदयेन सङ्ग न व्रजति. ६. लोहमयलं कठिनत्वं विहाय. ७. हे कामव्यथाच्छेदकरहस्य. ८. विधवानां जनितोऽन्तो येन. ९. रितम्. १०. अनुपमतर्कः ११. असौ खड्ने बिन्दुना तिलकेन अयो लोहमिव. १२. कामेन. १२. प्रासक्रमं विना युगपदेव ग्रस्यते स्म .