SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] चन्द्रप्रभचरितम् । माग्रहं सखि भजख स माया यत्करोति दयितः खसमायाः । गोप्यते तव कथं तनु तेन पुष्ठिमङ्गकमिदं तनुते न ॥ १३ ॥ नास्ति तस्य मयि यन्ममतापि तेन मानसमिदं मम तापि। तन्ममास्तु सखि तन्नमनेन नासुखप्रतिविधानमनेन ॥ १४ ॥ योऽपराधरचनासु खलेशस्तेन कः प्रणयिना सुखलेशः । तद्वरं विदधतं महिमानं युक्तमेव विदधीमहि मानम् ॥ १५ ॥ तापहारि वपुषो विधुरस्य चन्दनाम्बु न न वा विधुरस्य । गन्तुमप्रियकृतौ नियतेहं न प्रियं तदपि धाग्नि यतेऽहम् ॥१६॥ यान्यदास्त वचनानि वदन्ती दूतिकामिति महानिव दन्ती । माधवोऽकृत वशे मधुरस्य तां प्रियस्य धुतकामधुरस्य ॥ १७ ॥ . (पञ्चभिः कुलकम्) त्वाशी पटुरकारि वयस्या मच्छुभैय॒हपतेरिव यस्याः। मूर्तिरुत्सवकरी सकलस्य सज्जनस्य सविकासकलस्य ॥ १८ ॥ तत्प्रगम्य दयितं रुचिताभिर्वाग्भिरालि निगदेरुचिताभिः । यत्त्रियैकवचसामपरस्य जायते न तदसामपरस्य ॥ १९ ॥ किंकरी तव भवामि सदाहं मन्मनः सुरतकामि सदाहम् । हादय प्रियतमानयनेन त्वं क्षमात्र न मृगीनयने न ॥ २० ॥ तापयन्ति मम मानिनि तान्तं मानसं मधुदिनानि नितान्तम् । तद्विधेहि दयितं दयमानं सामभिर्मम महोदयमानम् ॥ २१ ॥ काचिदुत्पलतुलासहनेत्रा रन्तुमुत्सुकमनाः सह नेत्रों । दूतिकामिति जगौ विनयेन दुःखमुद्भवति भावि न येन ॥ २२ ॥ (पञ्चभिः कुलकम्) का क्षता हृदयभूशबरस्य सायकैर्न विननाश वरस्य । - संस्मरन्त्यनुपमासहितस्य प्रोषितस्य मधुमासहितस्य २३ ॥ . १. अनेन दुःखप्रतीकारो न भवति. २. अतिदुर्जनः. ३. चन्द्रः. ४. अनिष्टकरणे नियतचेष्टम्. ५. दर्शनीयस्य. ६. चन्द्रस्य. ७. वदेः. ८. वस्तु ९. नायकेन. १०. कामव्याधस्य. ११. प्रियस्य संस्मरन्ती. १२. अनुपमस्य. ..
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy