________________
७ सर्गः]
चन्द्रप्रभचरितम् । पूर्वजन्मकृतपुण्यकर्मणा सोऽजनिष्ट भुवनातिवर्तिना। षण्णवत्यचिररोचिरुज्ज्वलस्त्रीसहस्रमुखपद्मषट्पदः ॥ ७२ ॥ तस्य मन्थरचतुष्टयाधिकाशीतिलक्षकरिदार्नकैदमः । मन्दिराङ्गणमभूदनारतं दुष्प्रलयमधनागमेष्वपि ॥ ७३ ॥ तस्य मारुतविलोलमूर्तिभिर्निवोत्तमतुरंगकोटिभिः । क्षुभ्यति स्म परितश्चमूचयो वीचिपतिभिरिवापगापतिः ॥ ७४ ॥ शुद्धकुन्ददलरोचिषां गवामाचितास्तिसृभिरस्य कोटिभिः । रेजिरे गहनभूमयो दिशः शारदीभिरिव मेघपङ्क्तिभिः ॥ ७५ ॥ तस्य वारिनिधिवारिमेखला मेदिनी मदनसंनिभाकृतेः। सस्यसंपदमसूत वाञ्छितामेकसंख्यहलकोटिवाहिता ॥ ७६ ॥ सैन्यनाट्यनिधिरत्नभोजनान्यासनं शयनभाजने पुरम् । वाहनेन सममित्यभीप्सितं भोगमाप स दशाङ्गमीश्वरः ॥ ७७ ॥ सोऽधिगम्य वसुधाविशेषकः षोडशामरसहस्रसेव्यताम् । नाकनायक इव खतेजसा दुःसहेन विततान रोदसी ॥ ७८ ॥ संकुलं नरनभश्चरामरैराकरैश्च बहुरलयोनिभिः । म्लेच्छखण्डसहितं स संमितैरार्यखण्डमनयद्वशं दिनैः ॥ ७९ ॥
पट्खण्डमण्डितमखण्डबलः प्रचण्ड
कोदण्डखण्डितरिपुर्भरतं प्रसाध्य । प्रत्याजगाम जगतीतिलकः स सम्रा
डुत्कण्ठमाननिजबन्धुजनामयोध्याम् ॥ ८० ॥ तस्यां वणिक्पथकृताधिकसंस्क्रियायां
द्वारप्रदेशविनिवेशिततोरणायाम् । तं कामकल्पवपुषं प्रविशन्तमुच्चै
चुक्षोभ वीक्ष्य निवहः पुरसुन्दरीणाम् ॥ ८१ ॥ प्रावेशिकानकनिनादविबोधितस्य
भूपालमार्गमभिधावनतत्परस्य ।