________________
काव्यमाला।
योषिद्गणस्य गुणवानपि संबभूव
श्रोण्या सहानभिमतः कुचकुम्भभारः ॥ ८२ ।। तद्रूपलोकनविलोभितलोचनायाः ___ कस्याश्चिदुद्रथितनीवि नितम्बबिम्बे । संसक्तमिन्दुरुचिरं दधदन्तरीयं
खेदाम्बुबुद्धिमदिव स्खलितं ररक्ष ॥ ८३ ॥ काचिद्विहाय गृहभित्तिगतं विचित्रं
चित्रं गवाक्षवदनाभरणीकृताक्षी । तद्रूपदर्शनसमुद्भवमन्यदेव
चित्रं खचेतसि चकार चकोरनेत्रा ॥ ८४ ।। कस्याश्चिदन्यजनसंकुलमार्गगाया
धर्मोदबिन्दुरुचिरे कुचकुम्भमध्ये । जातत्रपेव परभागमनश्नुवाना
तुत्रोट हारलतिका सहसा कृशाङ्गयाः ।। ८५ ।। आर्द्रदत्तनवयावकमण्डनेन
काचिद्विकासिरुचिराधरपल्लवेन । तद्रूपदर्शनसमुत्थममान्तमन्त
र्बभ्राम रागमतिरिक्तमिवोद्गिरन्ती ॥ ८६ ॥ अन्योन्यसंहतकराङ्गुलि बाहुयुग्म
मन्या निधाय निजमूर्धनि जृम्भमाणा । तद्दर्शनात्प्रविशतो हृदये स्मरस्य — माङ्गल्यतोरणमिवोत्क्षिपती रराज ॥ ८७ ॥ संभावितैकनयना रुचिराञ्जनेन
तद्रिक्तमेव दधतीक्षणमन्यदन्या । लोकस्य सस्मितविलोकनकारिणोऽर्ध
नारीश्वरस्मरणकारणतां जगाम ॥ ८८॥