________________
७ सर्गः]
चन्द्रप्रभचरितम् ।
तेन स खवशभावमाहृतः कर्मणाष्टविधभेदभागिना । संसरत्यशरणो भवाम्बुधौ लोहकान्तमणिकृष्टलोहवत् ॥ ४६ ॥ कर्मभिः परवशीकृतात्मनो भ्राम्यतो बहुविधासु योनिषु । खल्वबिल्वविधिना प्रमादतो जायते मनुजजन्मसंगमः ॥ ४७ ॥ प्राप्तमानवभवोऽपि कृच्छ्रतः पुत्रबान्धवकलत्रमोहितः । कर्म तत्किमपि संचिनोत्यसौ येन गच्छति पुनः कुयोनिषु ॥ ४८ ॥ इत्यवेत्य भवदुःखभीरवः संगमं विदधते सुमेधसः । कर्मबन्धनविपक्षभूतया ज्ञानदर्शनचरित्रसंपदा ॥ ४९ ॥ ज्ञानमर्थ परिबोधलक्षणं दर्शनं जिनमताभिरोचनम् । पापकार्यविरतिखभावकं कीर्तितं चरितमात्मवेदिभिः ॥ ५० ॥ संगतं त्रयमिदं प्रजायते कृत्स्नकर्मविनिवृत्तिकारणम् । पङ्गुलोचनविहीनवद्भवेदेककं न पुनरर्थसाधकम् ॥ ५१ ॥ ज्ञानमागमनिरोधिकर्मणो भाविनश्चरितमर्जितासनम् । दृष्टिराचरति पुष्टिमेतयोरित्थमेतदुपयोगवत्रयम् ॥ ५२ ॥ ज्ञानमात्रमिह संसृतिक्षये कल्पितं यदबुधैर्न तत्तथा । भेषजैश्च विदितैर्यतः शमं व्याधिरेति किमनुष्ठितैर्विना ॥ ५३ ॥ शुश्रुवानिति स बन्धमोक्षयोः कारणं जिनमुखारविन्दतः । तत्क्षणादुपययौ विरक्ततां श्रेयसि त्वरयते हि भव्यता ॥ ५४ ॥ स प्रहाय शमशक्तमानसः प्रेम बन्धुसुतदारगोचरम् । देहजार्पित परिच्छदः परं शिश्रिये श्रमणसेवितं पदम् ॥ ५५ ॥ चक्रवर्त्यपि गृहीतदर्शनः कायवाङ्मनसशुद्धिसंयुतः । त्रिः प्रणम्य जिनमर्चितं सतां प्राविशत्पुरमुदारगोपुरम् ॥ ५६ ॥ अन्यदा नृपतिवृन्दवेष्टितः संनियोज्य स पुरः प्रयाणके । वाहिनीपतिमतेजसं निर्जगाम दशदिग्जिगीषया ॥ ५७ ॥ छत्रमुल्लसितफेनपाण्डुरं निर्बभावुपरि तस्य गच्छतः । धर्मवारणमिषेण सेवितुं चन्द्रमण्डलमिवागतं खयम् ॥ ५८ ॥ १. खल्वाटबिल्वफलवत्.
६१