SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६० काव्यमाला । संततोत्सवनिविष्टचेतसां संबभूव सुहृदां न केवलम् । विद्विषामपि भविष्यदापदां सर्वतोऽप्युदितकेतु मन्दिरम् ॥ ३४ ॥ प्राप वारवनिताप्रवर्तितैर्गीतनृत्यविधिभिर्मनोज्ञताम् । मेदिनी विहितलोकविस्मयैद्यश्च किंनरवधूसमुद्भवैः ॥ ३५ ॥ पेटुरेत्य नटगायनादयो मङ्गलं नृपतिमन्दिराङ्गणे । तुम्बरुप्रभृतयश्च कोकिलालापकोमलगिरो नभोङ्गणे ॥ ३६ ॥ वारिकैर्मृदुजलच्छटोद्यतैः केवलं न खलु राजवर्त्मसु । वारिदैरपि मनाक्प्रवर्षिभिः पांसवः प्रशममाशु निन्यिरे ॥ ३७ ॥ केवलं न मणिबन्धुभासुरं तेन पुण्यजयिना नृपासनम् । चक्रिरे गुरुजनाशिषोऽप्यधस्तन्मनोरथपथातिगश्रिया ॥ ३८ ॥ प्राप्य चक्रधरराज्यसंपदां संगमं गुरुकृताभिषेचनः । सोऽधिकं सहजदीधितिर्बभौ सूर्यकान्त इव सूर्यरोचिषा ॥ ३९ ॥ अन्तरेऽत्र नखचन्द्रचन्द्रिकाचुम्बितत्रिदशराजमस्तकः । भव्यलोकनिवहं प्रबोधयन्नाययौ जिनपतिः स्वयंप्रभः ॥ ४० ॥ सिंहविष्टरनिविष्टमच्युतं तं निशम्य निकटव्यवस्थितम् । निर्जगाम रभसेन वन्दितुं चक्रवर्तिसहितोऽजितंजयः ॥ ४१ ॥ तीर्थभूतमुरुभक्तिभावितस्तं प्रणम्य मुनिहंससेवितम् । मस्तकस्थकरकुड्मलोऽमलं प्रश्नमित्यकृत बन्धगोचरम् ॥ ४२ ॥ बध्यते कथय कर्मभिः कथं नाथ जन्तुरिह मुच्यतेऽथवा । देव संशयविपर्ययाकुलं तिष्ठते त्वयि जगद्यतोऽखिलम् ॥ ४३ ॥ वस्तुतत्त्वमधिगन्तुमिच्छतो भारतीमिति निशम्य भूभृतः । योजनप्रमितया गिराधरस्पन्दवर्जितमुवाच तीर्थकृत् ॥ ४४ ॥ सप्रमादहृदयः कषाययुग्योगवान्विरतिवर्जिताशयः । सम्यगीक्षैणविर्पययस्थितः कर्मबन्धमुपयाति चेतनः ॥ ४५ ॥ १. शत्रुपक्षे उ इत्यव्ययमाश्चर्ये, दितकेतु खण्डितध्वजम् . २. वारिणि नियुक्तैः . ३. मिथ्यादर्शनस्थितः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy