________________
५७
७ सर्गः]
चन्द्रप्रभचरितम् । अतिदूरतरोऽपि तेन सोऽध्वा जनकाश्वासनलोलमानसेन । दिवसैरतिसंमितैर्ललचे जनयत्युत्सुकतां न कस्य बन्धुः ।। ११० ॥
श्रुत्वा तं सकलत्रमुद्धृतरिपुं भूत्या महत्यागतं _ बिभ्राणः प्रमदोदयान्निजतनुं पुष्प्यत्कदम्बाकृतिम् । निर्गत्यानुगतः पिता परिजनैः पौरैश्च जातोत्सवै
रानन्दाश्रुतरङ्गितेक्षणयुगः प्रावेशयत्पत्तनम् ॥ १११ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये षष्ठः सर्गः ।
सप्तमः सर्गः। पूर्वजन्मकृतपुण्यकर्मणः पाकशासनसमानतेजसः । चक्ररत्नमथ तस्य खण्डितारातिचक्रमुदपादि चक्रिणः ॥ १॥ रश्मिजालजटिलीकृताखिलव्योमदुःसहनिरीक्ष्यविग्रहम् । ययभाव्यत विलोक्य मानवैर्भानुबिम्बमिव सेवयागतम् ॥ २॥ त्रासितारिरुदभून्निजद्युतिद्योतितद्युविवरो महानसिः । दृश्यजिह्व इव तेन चक्रिणं छद्मना खयमसेवतान्तकः ॥ ३ ॥ वज्रपांसुजलधर्मवारणं जातमिन्दुरुचि धर्मवारणम् । व्यञ्जितुं कमलया खसेवनं पाणिपद्ममिव संप्रदर्शितम् ॥ ४ ॥ सिन्धुतोयतरणादिषु क्रियासूपयोगगमनेन गर्वितम् । पुण्यवैभववशीकृतं विभोश्चर्मरत्नमगमद्विधेयताम् ॥ ५॥ ज्योतिरुज्वलमनल्पमण्डलं यद्यराजदवनौ प्रसारितम् । चक्रभृन्महिमनिर्जितं नमः संप्रकुच्य तमिवाश्रयं गतम् ॥ ६॥ वृत्तिमद्रिकुलिशादिभेदनप्रायकर्मसु दधत्पटीयसीम् । दण्डरत्नमभवद्भवान्तरोपार्जितोर्जितशुभाभ्युदीरितम् ॥ ७ ॥ यद्रराज निजभासुरप्रभाभासिताखिलनभोदिगन्तरम् । तद्भयाधिगतवेपथोश्च्युतं वासवस्य कुलिशं करादिव ॥ ८ ॥ भास्करादिरुगगोचरीभवद्धान्तपाटनविधौ पटीयसी । किंकरत्वमभजत्समुज्वला तारकाधिपकलेव काकणी ॥ ९ ॥
१.छत्रम्.