SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५८ काव्यमाला । प्रोद्बभूव नवमेघमेचकप्रान्तवर्तितिमिरक्षतिक्षणः । रत्नदर्पण इव श्रियः स्फुरद्दीपभासुरशिखः शिखामणिः ॥ १० ॥ स्यन्दमानमदनिर्झरश्चलच्चारुचामर विराजितो गजः । तद्गुरुत्वगुणनिर्जितश्छलाच्छैलराडिव ययावुपानतिम् ॥ ११ ॥ अस्खलद्गति बृहद्बलान्वितं वाजिरत्नमसिधन्मनोजवम् । तन्निभेन विदधे समीपगस्तस्य वायुरिव पर्युपासनम् ॥ १२ ॥ शत्रुदुर्विषहशक्तिभीषणस्तेजसा विजिततारकाधिपः । शौर्य भूररिभियामभूरभूत्कार्तिकेय इव वाहिनीपतिः ॥ १३ ॥ देवमानवशुभेतरग्रहप्रापितापदेपहस्तनक्षमः । देहबद्ध इव पुण्यसंचयः संबभूव भवने पुरोहितः ॥ १४ ॥ तत्क्षणाभिलपितामराधिपावासकल्पसदनादिसाधकः । ब्रह्मणा सकलशिल्पकर्मणा संनिभः स्थपतिरप्यजायत ।। १५ ।। चित्रपट्टलिखितव्ययागमो नित्यकृत्यगृहकार्यकोविदः । लोकवृत्तविदुदारधीरधीसंगतो गृहपतिः समुद्ययौ ॥ १६ ॥ प्रासिधन्निति शशिप्रभान्विता रत्नशब्दगदिताश्चतुर्दश । तस्य भाग्यभवनस्य भूपतेर्दुर्लभं किमथवा शुभोदये ॥ १७ ॥ नित्यसंनिहितदेह देवतादत्तचिन्तितविचित्रवस्तवः । रत्नवच्च निधयः सुकर्मणस्तस्य सद्मनि नवोपतस्थिरे ॥ १८ ॥ तेषु माषचणकातसीतिलव्रीहिशालियवमुद्गकोद्रवान् । पाण्डुकः सततमेवमादिकान्क्षुन्मयामयहरान्व्यैशिश्रणत् ॥ १९ ॥ कान्तकुण्डलमनोज्ञमुद्रिकातारहारमणिमेखलादिकम् । रत्नरश्मिरुचिरं विभूषणं चित्तवाञ्छितमदत्त पिङ्गलः ॥ २० ॥ वृक्षगुल्मलतिकासमुद्भवं चित्तहारि सकलर्तुगोचरम् । पुष्पपल्लवमथोत्तमं फलं तस्य कालनिधिरीप्सितं ददौ ॥ २१ ॥ १. दूरीकरणे. २. सिध्यन्ति स्म. ३. अदात्. ४. एतन्नामको निधिः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy