________________
६ सर्गः]
चन्द्रप्रभचरितम् । परिणेष्यति तां य एव धन्यो मदनस्येव धनुर्लतां नताङ्गीम् । स भविष्यति पुण्यराशिरेकस्तव हन्ता भरतस्य च प्रभोक्ता ॥ ८४ ॥ इति वाचमदृष्टमुद्राभां सहसा तस्य निशम्य खेचरेन्द्रः । हृदये विषसाद साध्वसोद्यत्प्रचुरखेदजलप्लुताङ्गयष्टिः ॥ १५ ॥ गुणवत्सल मा गमस्त्वमस्मिन्विषये मामकचिन्तयाकुलत्वम् । कमपि प्रतिकारमत्र योग्यं प्रविधास्याम्यहमप्रमत्तचित्तः ॥ ८६ ॥ इति देशयति नभश्चराणामधिपस्तं विससर्ज नम्रमौलिः । अवधार्य च कृत्यमात्मचित्ते तमनैषीदिवसं निगूढभावः ॥८७॥(युग्मम्) अपरेचुरशेषसैन्ययुक्तः स विमानैर्मणिकिङ्किणीकरालैः। जयवर्मपुरं रुरोध गत्वा सभयैः पौरजनैर्विलोक्यमानः ॥ ८८ ॥ प्रजिघाय च दूतमुद्धताख्यं वचनशं विनिवेदिताभिसंधिम् । स सभामुपगम्य सूचितात्मा जयवर्माणमिदं वचो बभाषे ॥ ८९ ॥ धरणीध्वज इत्यमोघनामा प्रथितः खेचरचक्रचक्रवर्ती । वदतीति भवन्तमक्षताज्ञो नृप मद्वक्रनिवेशितैर्वचोभिः ।। ९० ॥ तव कापि शशिप्रभाभिधाना दुहितास्त्यर्थसमन्वितेन नाम्ना । भवता किल सा विदेशकाय प्रवितीर्णेति मया श्रुतं जनेभ्यः ॥९१॥ तदिदं शरदभ्रशुभ्रकीर्तेस्तव युक्तं न कुलोन्नतस्य कर्तुम् । भवतो भवति ह्यकीर्तिरेवं सति गुर्वी पृथिवीतले समस्ते ॥ ९२ ॥ विदधाति मतिं सुताविमोहागृहजामातरि यद्यपीह कोऽपि । अभिजातिरवश्यमेव तेनाप्यभिमृग्या ननु सा वरेषु मुख्या ॥ ९३ ॥ भवतो ननु पुण्यमत्र हेतुर्यदविज्ञातकुलेन तेन नोढा । तदियं स्खकरेण दीयतां मे हठकारः क्रियते मया न यावत् ॥ ९४ ॥ इति तद्वचनैर्विरुद्धचेता वचनं भूपतिरभ्यधात्समासात् । मतिमानपि दूत कोविदस्त्वं न मनागप्यसि लौकिकक्रियायाम् ॥९५॥ कुलजोऽकुलजोऽथवास्तु सोऽस्मै न हि दत्ता तनया भवत्यदत्ता। यदि कोऽपि बलाद्रहीतुमीशस्त्वरितोऽभ्येतु विलम्बते किमर्थम् ॥१६॥ १. कथिताभिप्रायम्. २. कुलम्. ३. अभ्यागच्छतु.