________________
५२
काव्यमाला।
उदपादि तयोः शशिप्रभाख्या दुहिता सर्वजगल्ललामभूता । तरतीव शशाङ्कचारु यस्या निजलावण्यपयोनिधौ शरीरम् ॥ ४५ ।। अथ तामपरो महेन्द्रनामा जयवर्माणमयाचत क्षितीशः । वितरन्नैचिरायुषे तनूजां किल तस्मै स निमित्तिना निषिद्धः ॥ ४६॥ स निरस्यमनोरथस्तदानीं सह संभूय समस्तराजलोकैः । जयवर्मबलं निहत्य युद्धे पुरमावृत्य वितिष्ठते तदीयम् ॥ ४७ ॥ तदयं खविनाशमीक्षमाणः सकलो राष्ट्रजनः प्रयाति भनः । गिरमित्यवगम्य तस्य हृष्यन्युवराजो विपुलं प्रति प्रतस्थे ॥ ४८ ॥ ददृशे च गतेन तेन तस्मिन्नगरं तद्रिपुसैनिकैः परीतम् । शिशिरांशुसमुद्गमे प्रवृद्धैरिव वेलावनमम्बुधेस्तरङ्गैः ॥ ४९ ॥ अविकम्पितधीरसंस्तुतत्वात्प्रतिषिद्धोऽपि नृपाज्ञया प्रगच्छन् । करिकीर्णपथां प्रतिप्रतोलीमिति तैः सोऽभिदधे महेन्द्रयोथैः ॥ ५० ॥ शिरसा न निजेन तेऽस्ति कार्य परिनिर्विण्णमतिः स्वजीविते वा । नृपशासनमप्रसह्यमन्यैर्यदतिक्रम्य पथैषि निर्विशङ्कः ॥ ५१ ॥ स तदीयवचःप्रवृद्धमन्युर्धनुरेकस्य कराजहार धीरः। खनृपेण सहैव रक्षतासून्यदि शक्तिर्भवतामिति ब्रुवाणः ॥ ५२ ॥ नगतुङ्गमतङ्गजोग्रनके पवनस्पर्धितुरङ्गवीचिचक्रे । विचरंश्चतुरङ्गसैन्यसिन्धौ ददृशे मन्दरवत्स पौरलोकैः ॥ ५३ ॥ विषवह्निशिखामिवेषुमालां क्षिपतः संततधारमेकवत्रम् । विदधद्विमुखान्भटानिवाहीन्स गरुत्मेव महेन्द्रमाप कोपात् ।। ५४ ॥ प्रलयाहिमदीधितेरिवोल्का सृजतो मार्गणसंहतिं कुमारः। सविलासनिपातितकबाणो विधवां तस्य चकार राज्यलक्ष्मीम् ॥ ५५ ॥ तमकारणबान्धवं ततोऽसौ समुपादाय विपक्षकक्षदावम् । प्रविवेश समुत्सवैर्महद्भिर्जयवर्मा नगरं कृतादृशोभम् ॥ ५६ ॥ पुरनाथपुरःसरः कुमारः प्रविशन्राजनिकेतमुत्पताकम् । विदधे विविधान्वधूजनानां हृदयोन्मादविधायिनः स भावान् ॥ ५७ ।। १. आसन्नमृत्यवे.