SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४८ काव्यमाला। श्रुतान्वितस्यान्त्यशरीरभाजस्तत्त्वावबोधक्रममाणबुद्धेः । . भवस्थितिस्ते विनिवेद्यमाना शतक्रतो ककथेव भाति ॥ ८६ ॥ अनिष्टयोगप्रियविप्रयोगौ साधारणौ सर्वशरीरभाजाम् । इत्यात्मबुद्ध्या विगणय्य विद्वान्न खेदयत्यात्ममनो विषादैः ।। ८७ ।। अर्हस्यतस्त्वं प्रविधातुमेनं शरीरसंतापकरं न शोकम् ।। विपत्सु दैवोपनिबन्धनासु प्रखिद्यते कातरधीन धीरः ॥ ८८ ॥ विशङ्कमानोऽकुशलं तनूजे खेदं महीमण्डन मा स्म यासीः । संयुज्यसे त्वं दिवसैः कियद्भिः समृद्धिभाजा निजनन्दनेन ॥ ८९ ॥ इति गिरमभिदाय निश्चितार्थी गतवति तत्र निजाश्रमं मुनीन्द्रे । स निखिलमकृताहिकं विधेयं प्रहितनरेन्द्रनियोगिमन्त्रिवर्गः ॥ ९० ॥ दिनैरलपैरेव प्रथितगुणराशेस्तनुभुवो विदित्वा संयोगं परममुदयं चोग्रमहसः । पठद्वन्दिवातस्तुतशशिकलाशुभ्रयशसा सुखं तस्थे राज्ञा मुनिवचनविश्वस्तवचसा ॥ ९१ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये पञ्चमः सर्गः । षष्ठः सर्गः। अथ तेन परिभ्रमय्य मुक्तः सरुषासावसुरेण राजसूनुः । निपपात मनोरमाभिधाने सरसि प्रोन्मिषदुग्रनकचक्रे ॥ १ ॥ गगनात्पतितस्य तस्य घातादपविद्धेषु पयःसु सर्वदिक्कम् । जलधाम तदा स्थलीबभूव स्थलमासीच्च जलाशयो मुहूर्तम् ॥ २ ॥ परितः परिचूर्णयन्नुपेतान्मकरादीन्घनमुष्टिपाणिघातैः । प्रकटीकृतपूर्वपुण्यशक्तिस्तटमाप प्रविलय वारि दोाम् ॥ ३ ॥ धवलारुणकृष्णदृष्टिपातैः ककुभः कर्बुरयन्सरोन्तिकस्थः । स ददर्श समं ततोऽपि वीरः परुषाख्यामटवीमगम्यरूपाम् ॥ ४ ॥ पृथुतुङ्गनिरन्तरैस्तरूणां निवदश्छन्नसमस्तदिङ्मुखायाम् । निपतन्ति न यत्र तिग्मरश्मेरपि पादा इव दर्भसूचिभीत्या ॥ ५ ॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy