________________
९५ सर्गः]
चन्द्रप्रभचरितम् ।
दधानमिन्दोः परिवेशभाजस्तुलामतुल्याङ्गरुचा परीतम् । तदा तमुद्रीमुदीक्षमाणा सर्वा सभा विस्मयनाजगाम ॥ ७३ ॥ प्रलापिनी करुणार्द्रभावं बिम्बं किमेतद्गतमुष्णरश्मेः । वितर्कमेवं जनयञ्जनानां जवेन जज्ञे स नृपांतवर्ती ॥ ७४ ॥ संदर्शनादेव तदा महर्षेस्तपोमयेन ज्वलतोऽङ्गधाम्न्ना ।
४७
स भूभृतः पुत्रवियोगजन्मा जगाम शोकः सहसा कृशत्वम् ॥ ७५ ॥ न यावदद्यापि पवित्रपांसू निषीदतस्तच्चरणौ धरित्र्याम् | ससंभ्रमं तावदुपेत्य भूपः प्रसारयामास निजोत्तरीयम् ॥ ७६ ॥ अर्घादिकां सम्यगवाप्य पूजां ससंभ्रमेणोपहितां जनेन । स्वहस्तदत्तं नृवरेण पश्चादलंचकारोन्नतमासनं सः ॥ ७१ ॥ न तस्य तावानसुसंनिभस्य सूनोर्वियोगेन बभूव शोकः । यावान्भुवो भर्तुरभूतपूर्वो मुनीश्वराभ्यागमनेन तोषः ॥ ७८ ॥ अस्पृष्टपांसू अपि खेचरत्वात्कृतादरः शान्त्युदकार्थमेव । प्रक्षालयामास मुनीन्द्रपादौ नृपः पयोभिः प्रमदाश्रुमिश्रैः ॥ ७९ ॥ तस्मिन्नधीताशिषि साधुमुख्ये सप्रश्रयां वाचमुवाच भूपः । इन्तांशुभिः कुन्ददलैरिवासौ समर्चयन्पादयुगं तदीयम् ॥ ८० ॥ जातोऽहमद्येन्दुसमानकीर्तिर्धन्यः कृतार्थो जगतश्च मान्यः । यदभ्युपेतो मदनुग्रहार्थी मनोरथस्यापि भवानभूमिः ॥ ८१ ॥ न काचिदीहा कृतकृत्यभावान्न च क्वचित्प्रेम शमत्वयोगात् । इयं हि कल्याणकरी प्रवृत्तिर्जगद्धितायैव भवादृशानाम् ॥ ८२ ॥ निमज्जतो मे परिमूढबुद्धेरेवंविधे बन्धुवियोगदुःखे । मनः समुच्छ्रासि कृतं त्वयैव त्वं बान्धवेभ्योऽपि यतोऽसि बन्धुः ॥ ८३ ॥ इति श्रुतिहादिवचो ब्रुवाणं महीपतिं भक्तिभरावनम्रम् । जगाद भव्याम्बुरुहैकभानुर्मुनिर्मनोहारिभिरुक्तिभेदैः ॥ ८४ ॥ नराधिप त्वां प्रियविप्रयुक्तं विलोक्य दिव्येन सुलोचनेन । गुणानुरागादहमागतोऽस्मि गुणेषु केषां न मनोऽनुरक्तम् ॥ ८५ ॥