________________
काव्यमाला ।
जयशालिनः सहजभद्रतया परिभूषितस्य गुरुवंशभृतः । अजनिष्ट यस्य न मनागपि दिक्करिणोऽपि कीर्तिनिलयस्य मदः ||३४|| वसुधां पयोनिधिपयोवसनां परिघाकृतौ दधति यस्य भुजे । गुरुभारभुग्नमहिराजशिरोनिकुरुम्बमुन्नतिमवाप चिरात् ॥ ३५ ॥ निजरूपविभ्रममनोरमया जितसेनया सकुलपुत्रिकया । प्रजगाम योगमवनीतिलको रजनीमुखे विधुरिवात्मरुचा ॥ ३६ ॥ यदभूत्सुरासुरवधूसमितेरुपपादने महदतीवतराम् । प्रकटं विधातुमिव तद्विधिना निजकार्यकौशलमजन्यतया ॥ ३७ ॥ रतिरूपसंपदभिभूतिकरैर्ललितैर्निजस्य वपुषोऽवयवैः ।
२
शुभलक्षणैः परिविभूषितया विभवाय भूषण मंभारि यया ॥ ३८ ॥ शशिलाञ्छनेऽस्तमितवत्यपि सत्यगमद्यदीयमुख चन्द्रमसा । स्मितचन्द्रिकोज्ज्वलतरद्युतिना जगतीतलं सरजनीकरताम् ॥ ३९ ॥ स तयोर्गुणाभरणभूषितयोर्विवुधः समेत्य सुरलोकभुवः । भुवनातिशायिकमनीयतनुस्तनुभूरभूदजितसेन इति ॥ ४० ॥ जनतानुरागपरिवृद्धिकरः सुभगाकृतिर्वयसि यः प्रथमे । शरदौषधीपतिरिवामलिनास्तिलकः क्षितेरुपचिकाय कलाः ॥ ४१ ॥ गुणनिर्मितैः सुरभिभिः कुमुदैरिव यद्यशोभिरनुरागकरैः । प्रविभासिते जगति शीतरुचेरुदयो जनैरववये विफलः ॥ ४२ ॥ ध्रुवमस्य रूपविभवेन जितस्त्रपया विलीय समभूदतनुः । मदनस्तदीयतनुदाकरी हरलोचनार्चिरिति वॉर्तमदः ॥ ४३ ॥ नयमिन्द्रलाघवक विभवो विभवं च यस्य सहजो विनयः । तमलंचकार परमप्रशमं प्रशमं पराक्रमगुणो गुणिनः ॥ ४४ ॥ गुणसंपदा सकलमेव जगल्लघयन्तमात्मतनयं तमसौ । मुमुदे महीपतिरुदीक्ष्य भृशं शशिनं समग्रकलमब्धिरिव ॥ ४५ ॥ इति च व्यचिन्तयदलाभि न किं निजजन्मनः फलममुष्य मया भुवि यस्य भानुसदृशस्तनयोऽपि दधाति धामभिरशेषदिशः ॥ ४६ ॥ १. अधारि. २. गतवति. ३. उपचयं नीतवान्. ४. बुबुधे. ५. फल्गु.
४४