________________
५ सर्गः]
चन्द्रप्रभचरितम् ।
मलसङ्गवर्जितमितं पृथुतामुदयास्पदं सकलधामवताम् । घनवर्त्म शीतरुचिनेव करैर्मम दीपितं कुलमनेन गुणैः ॥ ४७ ॥ कुसुमाद्यथा विटपिनो वपुषो नवयौवनाच्छ्रुतवतः प्रशमात् । पुरुषान्वयस्य जगतीह तथा न सुपुत्रतः परमलंकरणम् ॥ ४८ ॥ अपरेद्युरेनमवनीतिलकं महतोत्सवेन नृपचक्रयुतः । नृपतिर्न्यवीविशद निन्द्यतमे जगतो हिताय युवराज्यपदे ॥ ४९ ॥ श्रुतशुद्धधीरधरितेन्द्रपदं पदमास्थितः पितुरुदारतमम् । स कलाधरः सकलभूमिभृतां मुकुलीचकार करपद्मवनम् ॥ ५० ॥ नयनाभिराममकलङ्कतनुं नवमादधानमुदयं जनता । शिरसा दृशोर्गतममुं विषयं प्रणनाम बालमिव चन्द्रमसम् ॥ ५१ ॥ स कदाचनाथ युवराजयुतः सदुपायनानुगतमण्डलिनाम् । प्रविलोकयन्निवहमास्त मुदा नृपतिर्मनोहरसभाभवने ॥ ५२ ॥ प्रथितोऽथ चन्द्ररुचिरित्यसुरस्तदशेषमेव परिमोहा सदः । कृतपूर्ववैरमवगम्य सुतं तमिलापतेरपजहार रुषा ।। ५३ ।। प्रतिबुद्धमानसुरमोहनजं क्षणमात्रकेन परिधूय तमः । सकलं ससंभ्रममिलाधिपतिः सुतशून्यमैक्षत सभाभवनम् ॥ ५४ ॥ इदमिन्द्रजालमुत धातुगता विकृतिर्मनः किमुत विप्लव मे । अवलोकयामि यदहं युवराकिलामिमां निजसभां परितः ॥ ५५ ॥ अथ मायिनान्यभववैरवशाद्रजनीचरेण दृढबद्धरुषा । असुरेण वाशु सदृशस्तनुभूरकृपेण केनचिदहारि स मे ॥ ५६ ॥ इति तर्कयन्विकलमङ्गभुवा गणयन्नरण्यमिव जीर्णमसौ । सकलं सदो दयितया सहितः प्रललाप मुक्तकरुणार्तरवम् ॥ ५७ ॥ प्रविहाय मामशरणं सहसा व मदङ्कदुर्ललित हासि गतः । लघु देहि दर्शनमहं हि विना भवतावलम्बितुमसूननलम् ॥ ५८ ॥ अधिसूनु लालनविधावहितेऽप्यमनोहरं तव मयाभिहितम् । न कदाचिदप्यसदृशप्रणये किमकारणं मयि विरक्तिमगाः ॥ ५९ ॥
४५.