________________
५ सर्गः ]
चन्द्रप्रभचरितम् |
सुरसुन्दरीसमशरीरलताः प्रविधाय यत्र युवतीर्विधिना । समपादि संकरभियेव भिदा सनिमेषलोचनयुगेन पुनः ॥ २१ ॥ त्रिदशाधिवासजिति यत्र सदाप्यगुणः समस्ति परमेष महान् । निपतन्मुखे कमलशङ्किमना यदुपद्रवत्यलिगणः सुमुखीः ॥ २२ ॥ अथ तत्र शक्त्युपचयानुगतो नृपशेखरीकृतपदाम्बुरुहः । नयविक्रमार्जितजगज्जयवानजितंजयोऽजनि नराधिपतिः ॥ २३ ॥ बिसतन्तु निर्मलत मैर्जनता परितापनोदिभिरतीततुलैः । करणैरिवोडुपतिनात्मगुणैर्धवलीकृता जगति येन दिशः ॥ २४ ॥ मम कः प्रतापमवजेतुमलं जगतीत्युदेति समदः प्रथमम् । प्रविलोक्य धाम पृथु यस्य पुना रविरेति लज्जित इवास्तमयम् ||२५| महिमा निसर्गविनयेन यथा न तथा श्रियाप्यजनि यस्य सतः । न निमित्तमत्र विभवः पुरुषं गुणसंपदेव गुरुतां नयते ॥ २६ ॥ भुवनातिगेन यशसा कथितं प्रविधार्य यस्य गुरु धैर्यगुणम् । लवणोदधिर्निजयशोभिभवादिव कालिमानमवहद्वपुषि ॥ २७ ॥ दहनेन येन रिपुवंशततेः सुहृदाननाम्बुजविकासकृता । न जितः परं दिनमणिर्महसा शशिलाञ्छनोऽपि कमनीयतया ॥ २८ ॥ गुरुरीश्वरो नरकविद्धनदः कमलालयः शिशिरगुश्च बुधः । सुगतश्च सन्सकलदेवमयः समपादि यो वसुमतीवलये ॥ २९ ॥ निजशौर्यवह्निहतशत्रुगणे गुणरञ्जिताखिलमहीवलये ।
पृथुधानि रक्षितरि यत्र सदा निरुपद्रवा विववृधे धरणी ॥ ३० ॥ रिपुसुन्दरीविततबाष्पजलैः शमितोरुवैरदहनस्य सतः । रविधाम यस्य ससहायमभूदुरुतेजसाखिलमटद्भुवनम् ॥ ३१ ॥ निजविक्रमाहितरणैकरसो मदहप्तकेसरिकिशोर इव । द्विषतां बले विपुलतेजसि यः प्रबबन्ध कीटकधियं प्रधने ॥ ३२ ॥ अतुलप्रतापपरिभूततमोरिपुधानि यत्र कृतदिग्विजये ।
निजनाम सर्वभुवनप्रथितं दधुरर्थशून्यमधिपाः ककुभाम् ॥ ३३ ॥
४ ३