________________
काव्यमाला।
सिकतास्थलोज्वलबृहजघना भ्रमनाभिकारुचिरमध्यभुवः । सुपयोधरा वहति योऽङ्कगता निजवल्लभा इव महासरितः ॥ ८ ॥ न नवं वयो व्यसनवर्गहतं न जरा मतिस्मृतिविमोहहता । न हता गुणा मलिनदोषगणैर्न च यत्र मृत्युरपमृत्युहतः ॥९॥ निरवग्रहैनवनवैः परितः परिपूर्णया विविधसस्यचयैः । प्रतनोति वोऽखिलजनस्य भुवा नयनोत्सवं सुरकुरूपमया ॥ १० ॥ तरुराजयः सकुसुमाः कुसुमं फलवत्फलं मधुरतानुगतम् । नहि तत्र किंचिदपि वस्तु न यजनतामुदं प्रविदधात्यथवा ॥ ११ ॥ अथ कोशलेति भुवनत्रितयप्रथितास्ति तत्र विषये नगरी । अलकेव भूरिविभवानुगतैः परिवारिता प्रचुरपुण्यजनैः ॥ १२ ॥ तनुकुक्षयोऽप्यतनुधारमपो विसृजन्ति यत्र शरदागमने । अतितुङ्गसौधशिखरावततिप्रविदारितोदरभुवोऽम्बुधराः ॥ १३ ॥ मणिदीपकप्रकटनिवृतये क्षिपती शिखासु निजमाल्यरजः । दयितेन यत्र नवमुग्धवधूरवहस्यते नतमुखी त्रपया ॥ १४ ॥ विविधासु धन्यजनहर्म्यततेर्मणिभूमिषु प्रतिमया निपतन् । निशि यत्र कुन्दसदृशः कुसुमप्रकरायते ग्रहगणो निखिलः ॥ १५ ॥ असतीजनं जिगमिषु बहुलक्षणदामुखेषु दयितावसथम् । निज एव विघ्नयति यत्र मुहुर्मुखचन्द्रमाः स्मितविभिन्नतमाः ॥१६॥ रजनीषु यत्र गुरुहर्म्यशिखागतनीलरत्नरुचिविच्छुरितः । हिमदीधितिर्भवति कृष्णवपुः पुरयोषितामिव मुखैर्विजितः ॥ १७ ॥ शिखराणि यत्र परिधेः परितः परिवारितानि शरदभ्रलवैः। रविवाजिनामिव विलङ्घयतां श्रमजैविभान्ति मुखफेनचयैः ॥ १८ ॥ सति मानसेऽप्यकलुषाम्भसि यद्गृहदीर्घिका निरतहंसकुलैः । न विमुच्यते सततसंनिहितैरिव सुन्दरीगतिशिशिक्षिषया ॥ १९ ॥ अतुलप्रतोलिशिखराप्रगतस्फटिकोपलांशुचयसंवलितः। भजते सहस्रकिरणत्वमुडुप्रकरोऽपि यत्र रजनीसमये ॥ २० ॥