________________
५ सर्गः ]
चन्द्रप्रभचरितम् |
रतिसुखमसमानं मानयन्खैर्विलासै
रकृत निकृतशत्रुस्तत्र राज्यं स भूपः ॥ ७६ ॥
दृष्ट्वा कदाचिदथ शारवमभ्रवृन्दमुत्पत्त्यनन्तरविनाशि विनाशितारिः ।
निर्वेदमाप सहसा स भवस्थितिज्ञः
सन्तः प्रयान्ति विषयेषु हि नातिसक्तिम् ॥ ७७ ॥ श्रीकान्ताय समर्प्य राज्यमखिलं नत्वा मुनिश्रीप्रभं
प्रव्रज्य प्रशमानुरक्तहृदयस्तप्त्वा तपो दुश्चरम् । सौधर्मे परमोदयः प्रमुदितो द्यब्धिप्रमायुः स्थिति - • देव : श्रीधर इत्यभूत्स विबुधस्त्रीनेत्रनित्योत्सवः ॥ ७८ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः ।
४१
अथ धातकीत्युपपदेन युतामभिभूष्य याम्यदिशि खण्डभुवम् । प्रविभासमानवपुरस्ति गुरुः सुरसेव्यसानुरिषुकारगिरिः ॥ १ ॥ अपि तस्य पूर्वभरते भरतप्रमुखक्षितीश्वरकृतावतरे । कविवेधसां श्रुतिपथाविषयो विषयोऽलकेति दधदस्त्यभिधाम् ॥ २ ॥ कमलानना मधुकरीनयना नवनालदण्डतनुबाहुलताः । हृदयंगमा वहति यः परितस्तरुणीरिव स्थलसरोरुहिणीः ॥ ३ ॥ वितताखिलक्षितितलाः पृथवः शिखरावलीवलयलीढघनाः । समतां यदीयनिगमान्तगता धरणीधरैर्दधति धान्यचयाः ॥ ४ ॥ विमलाकृतीरपरिदृष्टतला विहितादरैरपि गभीरतया । प्रबिभर्ति यः सकललोकमता महता मतीरिव महासरसीः ॥ ५ ॥ जलदीर्घिका जनविगाह्यजलाः सरितः शकुन्तरवरम्यतटाः । प्रविभाति यः परिदधत्परितः सरसीश्च पङ्कजवनाभरणाः ॥ ६ ॥ खरशीतमारुतरजोरहिते समयोचितोष्णहिमवर्षसुखे । निवसन्कदाचिदपि नाकुलतां सकलर्तुषु व्रजति यत्र जनः ॥ ७ ॥
चन्द्र० ५