________________
४०
काव्यमाला।
यातेन मुक्ता रविणेव साभूदङ्गारिणी शत्रुचिताभिराशा । प्रधूमिता यां च चकाङ्क्ष यातुं पलायमानारिचमूरजोभिः ॥ ६४ ॥ कल्लोलहस्तैः स्फुरदंशुजालं मुक्ताफलौघं विकिरंस्तटेषु । वेलावनप्राप्तबलस्य तस्य भयादिवारात्करमर्णवोऽपि ॥ ६५ ॥ द्वीपेषु दुर्गेष्वथ मण्डलेषु विदिक्षु दिक्षु प्रतिकूलिताज्ञः । न कोऽपि तस्याजनि पुण्यराशेर्दैवेऽनुकूले किमु नानुकूलम् ॥ ६६ ॥ संस्पृश्य पूर्व परितः करेण नीता पुनस्तेन रतिं समानाम् । वधूरिवाम्भोनिधिवारिवस्त्रा बभूव वश्या सकला धरित्री ॥ ६७ ॥ इति प्रसाध्याखिलभूतधात्रीं धात्री चतुर्वारिधिवारिसीमाम् । स वन्दिवृन्दैरभिवन्धमानः श्रीमान्पुनः श्रीपुरमाससाद ॥ ६८ ॥ नवोदयं प्रस्फुरितप्रतापं प्रसाधिताशेषदिगन्तरालम् । प्रत्यागतं भानुमिव प्रणन्तुं तमघहस्ता जनता निरीयुः ॥ ६९ ॥ मनोहरैः संहतकच्छवाटैबहिर्भुवां श्यामरुचः प्रदेशान् । विलोकयनराजगजाधिरूढः स गोपुरस्याभिमुखो बभूव ॥ ७० ॥ भरक्षमक्ष्मारुहमूलबद्धस्कन्धान्मदान्धानलिशोभिकुम्भान् । व्यलोकतासौ धनतः शिरोधीकृतप्रणामानिव वारणेद्रान् ॥ ७१ ॥ कलं नन्दन्ती परिखातटेषु निषेदुषी शङ्खसिता समन्तात् । हंसावलिस्तस्य जहार चित्तं सहैव गत्या गमनोत्सुकस्य ॥ ७२ ॥ स खातिकायाः पयसो विनिर्यत्कुतूहलेनेव विलोकनस्य । ददर्श पाठीनकुलं समन्तात्सरोजजैः पिञ्जरितं रजोभिः ॥ ७३ ॥ गवाक्षनिक्षिप्तमुखारविन्दाः पौराङ्गनास्तं नयनाभिरामम् । संभूय नेत्राञ्जलिभिः पिबन्त्यो न सस्मरुः खं श्लथनीविबन्धम् ॥७४॥ समधिकनवयौवनोदयश्रीर्विदधदधः शशिनं शरीरकान्त्या । स नृपतिरविशत्पुरं पुरान्तर्गतवनिताहृदयं च पञ्चबाणः ॥ ७५ ॥
सह शशिसमकान्त्या शीलसौभाग्यवत्या
विधृतविमलमूर्त्या कामशक्त्येव देव्या । १. रविणा मुक्ता दिगङ्गारिणीत्युच्यते, गन्तव्या तु प्रधूमितेति. २. पृथिवीम्.