________________
३७
४ सर्गः ]
चन्द्रप्रभचरितम् ।
ममेदमस्याहमिति ग्रहेण ग्रस्तो वराकः कथमेष जन्तुः । अणुप्रमाणस्य सुखस्य हेतोर्दुःखं गिरीन्द्रोपममभ्युपैति ॥ २५ ॥ न काकतालीयमिदं कथंचित्क्लेशक्षयान्मानुषजन्म लब्ध्वा । युक्त प्रमादः खहिते विधातुं संसारवृत्तान्तविदा नरेण ॥ २६ ॥ इति प्रजानामधिपः खचित्ते विचिन्तयन्संसृतिफल्गुभावम् । जगाम वैराग्यमपेतरागो बुद्धेः फलं यात्महितप्रवृत्तिः ॥ २७ ॥ अन्येद्युराहूय युवेशमीशः कृतप्रणामाञ्जलिमित्युवाच । मन्दीभवत्प्रेमरसानुबन्धां तदीयवक्रे विनिवेश्य दृष्टिम् ॥ २८ ॥ वात्येव यावन्न वपुःकुटीरमेतज्जरा जर्जरयत्युपेत्य । प्रवर्धमानं तिमिरं विहन्तुं यावन्न वा दर्शनशक्तिमीष्टे ॥ २९ ॥ यावन्न तीर्थोपगमप्रवीणौ पादौ निजप्रस्फुरणं जहीतः । कालेन यावद्भजतेऽवसादं न च श्रुतिर्धर्मकथावसक्ता ॥ ३० ॥ वयोनुरूपेण विवर्धमानो यावत्स्मृतिं भ्रंशयते न मोहः । यावच्च शास्त्राध्ययनप्रवीणा प्रवर्तते प्रस्खलितुं न वाणी ॥ ३१ ॥ तावद्भवान्मोचयितुं प्रयत्नादात्मानमिच्छाम्यै सुखानलार्तम् । जिनेन्द्रदीक्षाविधिनात्र कार्ये त्वया न भाव्यं परिपन्थिना मे ॥ ३२ ॥ पुरैव संसारपरम्पराया हेतोः श्रियश्चित्तमपेतमेव । अपेक्षमाणोऽनुदिनं त्वदीयमेवोदयं राज्यपदेऽवतिष्ठे ॥ ३३ ॥ भवानपास्तव्यसनो निजेन धाम्नाब्धिमर्यादममामिदानीम् । महीमशेषामपहस्तितारिवर्गोदयः पालयतु प्रशान्तः ॥ ३४ ॥ यथा भवत्यभ्युदिते जनोऽयमानन्दमायाति निरस्तखेदः । सहस्ररश्माविव चक्रवाको वृत्तं तदेवाचर चारचक्षुः ॥ ३५ ॥
3
वाञ्छन्विभूतीः परमप्रभावा मोद्वीविजस्त्वं जनमात्मनीनम् । जनानुरागं प्रथमं हि तासां निबन्धनं नीतिविदो वदन्ति ॥ ३६ ॥ समागमो निर्व्यसनस्य राज्ञः स्यात्संपदां निर्व्यसनत्वमस्य । वश्ये खकीये परिवार एव तस्मिन्नवश्ये व्यसनं गरीयः ॥ ३७ ॥
१. युवराजम्. २. दुःखदावपीडितम् ३. उद्वेगविषयं मा कृथाः. ४. कारणम्.