________________
३६
काव्यमाण ।
स संपदामायतनं जयश्री समाश्रयः सर्वमनोभिरामः । भेजे न चोरसेकमनूननीतिर्मदं भजन्ते न महानुभावाः ॥ १३ ॥ निरस्तषेड्डुर्गरिषुः कृतज्ञो गुणाधिकानां धुरि वर्तमानः । स मत्सरेणेव समं गुणौघैर्न पस्पृशे दोषगणैः कुमारः ॥ १४ ॥ पितुर्निदेशादथ सुन्दराङ्गीं स राजकन्यां विधिनोपयेमे । प्रभावतो देहगतप्रभायाः प्रभावतीति प्रथिताभिधानाम् ॥ १५ ॥ तं यौवराज्ये परिणीतभार्य नियोज्य धैर्य वशिनां तनूजम् । स राज्यसौख्यं विगतान्तरायं निश्चिन्तचित्तोऽनुबभूव भूपः ॥ १६ ॥ भोगैः स वान्छाकृतसंनिधानैर्मनोहरैमहितचित्तवृत्तिः । कालं न गच्छन्तमपि प्रजज्ञे प्रज्ञां हि मोहः शिथिलीकरोति ॥ १७ ॥ स्थितोऽथ हर्म्ये स नृपः कदाचिदुल्कां विलोक्याम्बरतः पतन्तीम् । विरक्तबुद्धिर्विषयेषु चिन्तामगादिति प्रोतकाललब्धिः ॥ १८ ॥ समस्तमेवंविधमेव पुंसामशाश्वतं जीवितयौवनादि ।
तथापि जानाति न मन्दबुद्धिरस्मादृशः पुत्रकलत्रमूढः ॥ १९ ॥ नगापगातोय तरङ्गलोलैर्विलोभ्यमानो विषयैर्वराकः । नारम्भदोषान्गणयत्यनन्तदुःखप्रदान्मोहवशेन जीवः ॥ २० ॥ क्षणक्षयिण्यायुषि मूढबुद्धिः स्थिराभिमानं यदि नैष कुर्यात् । न कर्मपाशैर्विवशीकृतात्मा योनिप्वनन्तासु सहेत दुःखम् ॥ २१ ॥ मुहुः प्रणष्टा मुहुरेव दृष्टाः समागमाः स्वप्नसमागमाभाः । विश्वासमृच्छत्यत एव विद्वान्न तेषु संयोगनिबन्धनेषु ॥ २२ ॥ या दुःखसाध्या चपला दुरन्ता यस्या वियोगो बहुदुःखहेतुः । तस्याः कृते जन्तुरुपैति लक्ष्म्याः परिश्रमं पश्यत मोहमस्य ॥ २३ ॥ विहाय ये निर्वृतिमव्यपायां बहुव्यपायां वृणुते विभूतिम् । हित्वा हिमं ते शुचिचन्दनाम्भः पिबन्त्यपो मूढधियः सपङ्काः ||२४||
१. गर्वम्. २. ‘कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषडुर्गो नृपतीनां भवत्ययम् ॥' ३. मुख्ययम्. ४. पुत्रकलत्रादयः. ५. गच्छति.