________________
४ सर्गः]
३५
चन्द्रप्रभचरितम् ।
चतुर्थः सर्गः। अथ प्रजानां नयनाभिरामो लक्ष्मीलतालिङ्गितसुन्दराङ्गः । वृद्धिं स पद्माकरवत्प्रपेदे दिनानुसारेण शनैः कुमारः ॥ १ ॥ व्रजत्सहैवोन्नतिमुज्वलाभिः कलाभिरानन्दितसर्वलोकः । स कान्तिमांश्चन्द्रमसा तदानीं जनैरुपामीयत राजपुत्रः ॥ २ ॥ गुरून्गुरून्सम्यगुपास्य तेभ्यो विद्योपविद्या विधिना विदित्वा । तद्वेदिनोऽसौ गणितैरहोभिरधो व्यधाद्दीधितिमानिवेद्धः ॥ ३ ॥ जनादशेषाद्वयसा लघीयानपि प्रवृद्धैः स महान्बभूव । कलागुणैरुज्वलरश्मिजालैरिव खकीयैर्मणिराकरोत्थः ॥ ४ ॥ धनुर्धरैः खङ्गिभिरश्ववारैगजेन्द्रशिक्षाधिकृतैश्च लोकैः । खं खं गुणोत्कर्षमसाववाप्तुं सदाभियुक्तैरुपजीव्यते स्म ॥ ५ ॥ तुषाररश्मि भजते निशायां दिनागमे याति सरोजखण्डम् । इति प्रकृत्या चपलापि लक्ष्मीरियेष मोक्तुं न तनुं तदीयाम् ॥ ६ ॥ वदान्यतां तस्य विलोक्य गुर्वी तद्वद्भिरत्याजि वृथाभिमानः । गतस्य लोके परतोऽभिभूतिं न मानिनो राजति मानयोगः ॥ ७ ॥ तदीयसङ्गादखिलोऽपि भीरुरन्यो जनः शूरतरो बभूव ।। महात्मनस्तस्य पुनर्महीयः स्वाभाविकं शौर्यमिव द्विपारेः ॥ ८ ॥ त्यागश्च शौर्य च तथैव सत्यं महागुणा नीतिविदामभीष्टाः । त्रयोऽप्यमी तस्य तनौ विवृद्धिं स्पर्धादिवान्योन्यकृतात्प्रजग्मुः ॥ ९ ॥
पूरयन्धान्यधनैरशेष नियोजयंश्चापि महागुणेषु । पतिः स एवाजनि नितिनेत्रो गुरुः स एवाश्रयिणां जनानाम् ॥१०॥ न केवलं सर्वगुणाश्रयेण प्रहर्षितस्तेन भृशं स्वपक्षः । किं तु द्विषन्तोऽपि खलखमावास्तन्नास्ति यत्पुण्यवतामसाध्यम् ॥११॥ त्रैलोक्यशोभाभिभवप्रवीणं नूनं विधिस्तस्य विलोक्य रूपम् । ययावतृप्तश्चतुराननत्वं नान्यद्वयं कारणमत्र विद्मः ॥ १२ ।। १. महत उपाध्यायान. २. भासुरः. 'इन्दुः' इत्यपि पाठः. ३. सेवापरैरुपजीवनविषयीकृतः. ४. वदान्यतायुक्तैः. ५. सिंहस्य. ६. ईर्ष्याविशेषात्. ७. पोषयन्.