________________
काव्यमाला ।
निःशेषमम्बुधरधीरगभीरनादै
-स्तूर्यैर्बभूव मुखरं नरनाथवेश्म । पौरो जनस्त्वरितमेव निजे निजेऽसौ
गेहे महोत्सवमकारयत प्रहृष्टः ।। ७१ ॥ खस्माबहिर्भवनतः प्रकटं निरित्य
नृत्यान्यतन्वत गणो गणिकाजनानाम् । लब्धोऽधुना वसुमति प्रभुरद्वितीयो ___ नन्द त्वमित्यजनि जन्मवतां प्रघोषः ॥ ७२ ॥ तुष्टया ददत्वसुतजन्म निवेदयन्यो
देयं न देयमिदमित्यथवा क्षितीशः। . नाजीगणंत्प्रमदविह्वलचित्तवृत्ति
विक्षिप्तवृत्ति हि मनो न विचारदक्षम् ॥ ७३ ॥ गायत्प्रनृत्यदभितो रभसेन वल्ग
दुन्मत्ततामिव जगाम पुरं समस्तम् । तत्राभवन्न खलु कोऽपि स यस्य नान्त
__ जज्ञे विकासि हृदयं सहसा द्विषोऽपि ॥ ७४ ॥ सर्वज्ञं कनकमयैः समर्च्य पुष्पैः कल्याणेऽहनि सह तेन वंशवृद्धैः । श्रीवर्मेत्यवनिभुजाथ तस्य नाम श्रीशब्दानुगतमकारि मङ्गलाय ॥ ७५ ।।
विदधदखिलास्तेजस्तीव्रान्पराननतान्नता
नवनिममितामोजोभिः वशं विवशां नयन् । निधिशतमहालाभैर्भूभृच्छतप्रहितैर्धनै
रुदयनिलये जाते तस्मिन्ननन्द स नन्दने ॥ ७६ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तृतीयः सर्गः ।
१. निर्गत्य. २. प्राणिनाम्.