________________
३१
३ सर्गः]
चन्द्रप्रभचरितम् । सा च प्रणश्यति न तावदसौ न याव
पुत्रो भवत्यरिकुलोन्मथनैकवीरः । पुत्रोदयेऽपि भवतोऽस्ति विबन्धहेतु
रन्यो भवान्तरगतं शृणु तं ब्रवीमि ॥ ५२ ॥ एषा तवाग्रमहिषी पुटभेदनेऽभू
दत्रैव पूर्वमभिनन्दितसर्वबन्धोः । देवाङ्गदस्य वणिजस्तनया सुनन्दा
श्रीकुक्षिजा गुणगणाभरणाभिरामा ॥ ५३ ॥ सान्यां विलोक्य नवयौवन एव नारी
गर्भेण पीडिततनुं गलिताङ्गशोभाम् । जन्मान्तरेऽपि वयसि प्रथमेऽहमीह
ड्मा भूवमित्यकृत मन्दमतिर्निदानम् ॥ ५४ ॥ सागारधर्मनिरता प्रतिपद्य कालं
सौधर्मकल्पमुपगम्य बभूव देवी । च्युत्वा ततः पुनरभूदिह पुण्यशेषा
दुर्योधनस्य दुहिता भवतश्च पत्नी ॥ ५५ ॥ तस्माद्भवान्तरभवादशुभान्निदाना
दस्या वयो नवमगादनपत्यमेव । कैश्चिद्दिनैः प्रशममीयुषि तस्य दोषे
निःसंशयं तव भविष्यति पुत्रजन्म ॥ ५६ ॥ तसिन्मृगाङ्क इव सर्वमनोभिरामे
सूनौ निधाय पृथुधाग्नि धुरं धरित्र्याः । संपत्स्यसे त्वमधिगम्य जिनेन्द्रदीक्षां सिद्धालयातिथिरैशेषितकर्मबन्धः ॥ ५७ ॥
१. अन्तरायकारणम्. २. नगरे. ३. प्रतीक्ष्य. ४. निरस्तकर्मबन्धनः.