________________
३२
काव्यमाला |
संक्षेपतो गिरमिमामभिधाय सम्यगानन्द्य भूमिपतिमिष्टेनिबन्धनेन । धामेप्सितं मुनिरगान्नृपतिश्च राजधानीमणुव्रतविभूषणभूषिताङ्गः ॥ ५८ ॥ पुंसां पुरोपचितपुण्यनिबद्धमिष्ट
मित्याकलय्य निबबन्ध मतिं स धर्मे । तत्रोन्मुखं भवति भाग्यवतां हि चेतो यत्संपदां नियतमंङ्गमनागतानाम् ॥ ५९ ॥ दानेन संयमिजनस्य जिनार्चनेन
तस्य प्रभोरविरतं नयतो दिनानि ।
प्रक्षोभिताखिलसुरासुरनागलोकं
नान्दीश्वरं परमपर्व समाससाद ॥ ६० ॥ तस्मिन्विधाय महतीमुपवासपूर्वी
पूजां जगद्विजयिनो जिनपुंगवस्य ।
स्नानं समीहितनिमित्तमधस्तदीय
बिम्बस्य स प्रविधे सहितोऽग्रदेव्या ॥ ६१ ॥ प्रह्लादनं विदधती शशिनः कलेव संपादयन्त्यभिमतं कुलदेवतेव ।
गर्भे कियद्भिरथ सा दिवसैर्बभार
मुक्ताफलं परममम्बुधिशुक्तिकेव ॥ ६२ ॥ किंचिद्वपुः शिथिलतामगमत्तदानी -
मापाण्डुरं वदननीररुहं बभूव ।
गर्भस्थ बालगुण भूरिभरादिवागा
मन्दापि मन्दतरतां गतिरायताक्ष्याः ॥ ६३ ॥ नीलानं प्रसृतपाण्डिम धारयन्ती वक्षोरुहद्वयमधःकृत चन्द्रकान्ति ।
१. अभिलषितप्ररूपणेन. २. प्रधानं कारणम्. ३. आजगाम.