________________
३०
काव्यमाला ।
मूर्ध्ना ननाम गुरुभक्तिभरानतेन संसारसिन्धुतरणौ चरणौ महर्षेः ॥ ४५ ॥ सोऽप्यात्मनः परिसमाप्य समाधियोगमाशीर्वचांसि निपपाठ विशुद्धपाठः । संखापयन्नरपतिं कुमुदोज्वलेन
धर्माभिषेकपयसेव निजस्मितेन ॥ ४६ ॥ कृत्वा करावथ स सकुंचदजकान्ती सप्रश्रयामिति जगाद गिरं क्षितीशः । दन्तावलीविशदरश्मिवितानकेन
लिम्पन्मुनीन्द्रचरणाविव चन्दनेन ॥ ४७ ॥ गत्वा सुदूरमपि यस्य विलोकनीयौ
पादौ पवित्ररजसौ रेजसः क्षयाय । तस्यागमे तव मुनीन्द्र न हेतुरन्यो
मुक्त्वा ममान्यभवसंचितपुण्यपाकम् ॥ ४८ ॥ श्रेयस्तनोति परिवर्धयते विवेकमुन्मूलयत्यघमुदीरयते विभूतिम् ।
त्वद्दर्शनं सुचरिताखिलभद्रहेतु
र्नाल्पीयसो भवति गम्यमिदं शुभस्य ॥ ४९ ॥ यद्भावि भूतमथवा मुनिनाथ तत्ते
बाह्यं न वस्तु कथयेदमतः प्रसीद |
संसारवृत्तमखिलं परिजानतोऽपि
नाद्यापि याति विरैतिं किमु मानसं मे ॥ ५० ॥ श्रुत्वेति तद्वचनमेवमुवाच चिन्तां चेतोगतां स नृपतेर्रेवबुध्यमानः । यावत्तव स्फुरति चेतसि सूनुवाञ्छा
तावन्न यासि विरतिं नृपपुंगव त्वम् ॥ ५१ ॥
१. मुकुलितौ २. पापस्य ३. वैराग्यम्. ४. परिजानन्.