________________
२८.
काव्यमाला |
चन्द्रोज्झितां रविरलंकुरुते घनाना वीथीं सरोजनिकरः सरसीमहंसाम् ।
पुत्रं विहाय निजसंततिबीजमन्यो
न त्वस्ति मण्डनविधिः कुलपुत्रिकाणाम् ॥ ३३ ॥ तेनोज्झितां निजकुलैकविभूषणेन सौभाग्यसौख्यविभवस्थिर कारणेन ।
मां शक्नुवन्ति परितर्पयितुं विपुण्यां न ज्ञातयो न सुहृदो न पतिप्रसादाः || ३४ ॥ कृत्वा विषादमिति दुःस्थितचित्तवृत्ति
र्दुःखं निवेद्य मयि तल्पतले न्यपप्तत् । संबोधितापि न मया बहुभिः प्रकारैः
शोकं विमुञ्चति मनागपि देव देवी || ३५ ॥ संख्या मुखादिति निशम्य विषादहेतुं निःश्वस्य किंचिदथ भूमिपतिर्बभाषे । शोकः शरीरहृदयेन्द्रियशोषहेतु
युक्तो न देवि तव वस्तुनि दैवसाध्ये ॥ ३६ ॥ दुःखेन ते प्रथममस्म्यहमेव दुःखी मद्दुःखतो भवति सर्वजनस्य दुःखम् ।
इत्थं समस्तजनतापरितापहेतो
र्मा गाः कृपावति शुचो वशमुद्धतायाः ॥ ३७ ॥ जन्मान्तरे शुभमथाप्यशुभं यदेव
यैरर्जितं स्वपरिणामवशेन कर्म ।
तद्योग्यमेव फलमिष्टमनीप्सितं वा
तैः प्राप्यते किमिति शोचसि हेतुहीनम् ॥ ३८ ॥ अत्यन्तदुर्घटमिदं नहि वस्तुनोऽस्य निष्पत्तिरित्यलसगामिनि मावमंस्थाः ।
१. दैवमित्यर्थः.