________________
२६
काव्यमाला ।
तावत्कराय विनिविष्टकपोलमूलां देवीमुदश्रुनयनां सहसा ददर्श ॥ २० ॥ तां तादृशीं समवलोक्य समानदुःखो दुःखं विभक्तुमिव तन्मनसि प्रवृत्तम् । स व्याकुलेन मनसा त्वरमाणवृत्तिः पप्रच्छ हेतुमतिशोकसमुद्भवस्य ॥ २१ ॥ दुर्वारवीर्य रिपुनिर्दहनप्रवीणे पृथ्वीतलप्रसृतदुर्विषहप्रतापे । पद्मायताक्षि मयि जीवति जीवितेशे संभाव्यते परभवो न पराभवस्ते ॥ २२ ॥ संतापमूलसुहृदं विरहं विसोदु
मुन्मेषमात्रमपि तावकप्रभूष्णोः ।
मत्तोऽपि मत्तगजगामिनि निश्चयेन
जानीहि संभवति न प्रणयस्य भङ्गः ॥ २३ ॥ त्वत्पादपद्मशरणे त्वदधीनवृत्तौ
- त्वत्प्रेम निघ्नमनसि त्वदभिन्नदेहे | शाठ्यं मनागपि मृगाङ्कमुखि त्वदीये
संभावयामि सरले न सखीजनेऽपि ॥ २४ ॥ छन्दानुवर्तिषु पदातिषु बान्धवेषु
दास्यं गतेषु च निशान्तवधूजनेषु । भ्रूभङ्गमात्रमपि सोढुमशक्नुवत्सु
संजायते न तव तन्वि निदेशभङ्गः ॥ २५ ॥ एतेषु सत्खपरितोषनिबन्धनेषु
किं कारणं कथय देवि शुचस्तवास्याः । पृष्टेति सा क्षितिभुजा त्रपया न किंचि -
दूचे परं मुखमलोकत बालसख्याः ॥ २६ ॥
१. कथय कथयेति शीघ्रवर्तनः २. असमर्थात् ३. त्वदायत्तजीवने. ४. असमर्थेषु.