________________
२४.
काव्यमाला
ये कचिद्गुणगणो गतवान्सहैव वृद्धिं मया नृपतिरेष पुनर्न जाने । मां द्वेष्टि शंसति शमप्रभृतीनितीव यो जातनिर्भररुषा मुमुचे मदेन ॥ ८ ॥ वक्षः श्रियो भुजयुगं वरवीरलक्ष्म्याः
कान्तेः शरीरमखिलं हृदयं क्षमायाः । यस्यास्पदं मुखमजायत वाग्विभूते
र्नत्वाश्रयाय सकलस्य सतां प्रयासः ॥ ९ ॥ भेजे नितान्तमैजलोsपि नदीनभावं
यश्चाभवद्वसुमतीतिर्लेकोऽप्यैशोकः ।
दोषाकरश्च न बभूव कलाधरोऽपि
सर्व हि विस्मयकरं महतां खरूपम् ॥ १० ॥ धर्मोऽर्थसंचय निमित्तमुदारमर्थः
कामस्य हेतुरितरः सुखयोनिरेते ।
यत्र त्रयोऽप्यविरतं न परस्परस्य
जैनेश्वरा इव नया विजहुर्व्यपेक्षाम् ॥ ११ ॥ वाञ्छद्भिराश्रयविशेषमिवात्मयोग्यमौदार्यधैर्यविनयादिगुणैरशेषैः ।
अभ्यर्थितः सततमादरवद्भिरेष
बेधाः ससर्ज नृपमालयभूतमेनम् ॥ १२ ॥ भानुर्भवेद्यदि मनागिह, सौम्यरूप
स्तेजखितामुपगतो मृगलाञ्छनो वा ।
धामाधिको विदधदेष जनानुरागं तेनोपैमानपदवीं प्रभुरुद्वहेत ॥ १३ ॥
१. यस्मिन्कस्मिंश्चित्पुरुषे. २. जलरहितः अजड: पण्डितश्च. ३. समुद्रभावं दीनभावं दीनत्वं च न. ४. वृक्षविशेषो ललामभूतश्च ५. वृक्षविशेषः शोकरहितथ. ६. सूर्येण चन्द्रेण च