________________
३ सर्गः]
चन्द्रप्रभचरितम् । यस्य प्रतापदहनेन विलङ्ग्यमान- ....... ___ मूर्तिनिरन्तरमरातिगणः समस्तः ।। द्रष्टुं दिशं न विदिशं चकितः प्रभूष्णु. धूकोपमः समभवद्दिरिगह्वरस्थः ॥ २ ॥ यस्य स्फुरद्भिरनुरागकरैर्यशोभि
रुद्भासितासु सकलासु दिगङ्गनासु । तन्मात्रकार्यकरणप्रवणाय लोकः
शीतांशवे न नितरां स्पृहयांबभूव ॥ ३ ॥ संपूर्णशारदनिशाकरकान्तकीर्ति- ...
वल्लीवितानपरिवेष्टितविष्टपान्तः । यः पोषणाद्विनयनाध्यसनापनोदा
त्वामी गुरुः सुहृदभूदखिलप्रजानाम् ॥ ४ ॥ यत्र प्रशान्तसकलव्यसने विनीते
स्वाभाविकं मतिमहातिशयं प्रपन्ने । चक्रुर्निवासमखिला नरनाथविद्याः
पर्युत्सुका इव परस्परदर्शनस्य ॥ ५ ॥ तुङ्गत्वमंद्रिपतिना हरिणेश्वरत्वं
शीतांशुना सुभगता वैशिता मुनीन्द्रैः । शौर्य मृगाधिपतिना गुरुणा मनीषा __ गाम्भीर्यमम्बुनिधिना तुलितं यदीयम् ॥ ६॥ नागाः पैदातिवृषभास्तुरगा रथाश्च
शोभानिमित्तमभवन्खलु यस्य सर्वे । आक्रम्य मण्डलपतीनखिलान्स यस्मा
सौ 'बुभोज वसुधां निजतेजसैव ॥ ७ ॥ १. समर्थः. २. प्रकाशमात्रकार्यकरणसमर्थाय. ३. परिवेष्टितं विष्टपान्तं येन. ४. वुद्धिमाहात्म्यम्. ५. मेरुणा. ६. इन्द्रेण. ७. जितेन्द्रियता. ८. भृत्यप्रधानाः, पदातयो
वृषभाश्च वा.